________________
व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यअनं-उपकरणेन्द्रियं तेन खसम्बद्धस्यार्थस्य-शब्दादेरवग्रहणम्-अव्यक्तरूपः व्यञ्जनावपरिच्छेदो व्यञ्जनावग्रहः, इयमत्र भावना-उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धे प्रथमसमयादारभ्यार्थावग्रहात् । ग्रहेज्ञानं
सुप्तमत्तमूछितादिपुरुषाणामिव शब्दादिद्रव्यसम्बन्धमात्रविषया काचिदव्यक्ता ज्ञानमात्रा सा व्यअनावग्रहः, 18स चान्तर्मुहूर्त्तप्रमाणः । अत्राह-ननु व्यञ्जनावग्रहवेलायां न किमपि संवेदनं संवेद्यते, तत्कथमसौ ज्ञानरूपो गीयते ?,
उच्यते, अव्यक्तत्वान्न संवेद्यते, ततो न कश्चिद्दोषः,तथाहि-यदि प्रथमसमयेऽपि शब्दादिपरिणतद्रव्यैरुपकरणेन्द्रियस्य | सम्पृक्तौ काचिदपि न ज्ञानमात्रा भवेत् ततो द्वितीयेऽपि समये न भवेत् , विशेषाभावात् , एवं यावच्चरमसमयेऽपि, अथ च चरमसमये ज्ञानमर्थावग्रहरूपं जायमानमुपलभ्यते, ततः प्रागपि क्वापि कियती ज्ञानमात्रा द्रष्टव्या, अथx मन्येथाः-मा भूत्प्रथमसमयादिषु शब्दादिपरिणतद्रव्यसम्बन्धेऽपि काचिदपि ज्ञानमात्रा, शब्दादिपरिणतद्रव्याणां तेषु समयेषु स्तोकत्वात् , चरमसमये तु भविष्यति, शब्दादिरूपपरिणतद्रव्यसमूहस्य तदानीं भूयसो भावात् , तदयुक्तं, यतो यदि प्रथमसमयादिषु शब्दादिद्रव्याणां स्तोकत्वात सम्पृक्तावव्यक्ताऽपि काचिदपि ज्ञानमात्रा न समुल्लसेत् तहिं प्रभूतसमुदायसम्पर्केऽपि न भवेत् , न खलु सिकताकणेषु प्रत्येकमसति तैललेशे समुदायेऽपि तैले समुद्भवदुपलभ्यते, अस्ति च चरमसमये प्रभूतशब्दादिद्रव्यसम्पत्तो जानं ततः प्राक्तनेष्वपि समयेषु स्तोकस्तोकतरैरपि शब्दादिपरिणतद्रव्यैः सम्बन्धे काचिदव्यक्ता ज्ञानमात्राऽभ्युपगन्तव्या, अन्यथा चरमसमयेऽपि ज्ञानानुपपत्तेः, तथा चोक्त
dain E
t ernational
For Personal & Private Use Only
www.jainelibrary.org