________________
अवग्रहमेदौ
श्रीमलय- तादृशार्थदर्शनादिकारणात् संस्कारस्य प्रबोधे यज्ज्ञानमुदयते-तदेवेदं यत् मया प्रागुपलब्धमित्यादिरूपं सा है गिरीया
स्मृतिः, उक्तं च-"तदनंतरं तदत्थाविचवणं जो उ वासणाजोगो । कालंतरेण जं पुण अणुसरणं धारणा सा उ नन्दीवृत्तिः
॥१॥" एताश्चाविच्युतिवासनास्मृतयो धारणालक्षणसामान्यान्वर्थयोगाद्धारणाशब्दवाच्याः ॥ ॥१६॥ 18 से किं तं उग्गहे ?, उग्गहे दुविहे पण्णत्ते, तंजहा–अत्थुग्गहे अ वंजणुग्गहे अ। ( सू. २८)
से किं तमित्यादि, अथ कोऽयमवग्रहः?, सूरिराह-अवग्रहो द्विविधःप्रज्ञप्तः, तद्यथा-अर्थावग्रहश्च व्यञ्जनावग्रहश्च, तत्र अर्यते इत्यर्थः अर्थस्यावग्रहणं अर्थावग्रहः-सकलरूपादिविशेषनिरपेक्षानिर्देश्यसामान्यमात्ररूपार्थग्रहणमेकसामयिकमित्यर्थः । तथा व्यज्यते अनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तचोपकरणेन्द्रियस्य श्रोत्रादेः शब्दादिपरिणतद्रव्याणां च परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थः शब्दादिरूपः श्रोत्रादीन्द्रियेण व्यञ्जयितुं शक्यते, नान्यथा, ततः सम्बन्धो व्यञ्जनं, तथा चाह भाष्य कृत्-"जिजइ जेणऽत्थो घडोब दीवेण वंजणं तं च । उवगराणदियसहाइपरिणयन्वसंबंधो ॥१॥" व्यञ्जनेन–सम्बन्धेनावग्रहणं-सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यन्ते इति व्यञ्जनानि, 'कृद्धहुल'मिति वचनात् कर्मण्यनद्, व्यञ्जनानां शन्दादिरूपतया परिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रहः-अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः,
१ तदनन्तरं तदर्थाविच्यवनं यस्तु वासनायोगः । कालान्तरे यत्पुनरनुस्मरणं धारणा सा तु ॥१॥ २ व्यज्यते येनार्थों घट इव दीपेन व्यानं तच्च । उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंबन्धः ॥१॥
SASURALA
॥१६८॥
dain Education Tatematonal
For Personal & Private Use Only
wwwsainelibrary.org