________________
Jain Ed
पारिणामिक्या बुद्धेरेवमादीन्युदाहरणाति । 'सेत्त' मित्यादि, तदेतदश्रुतनिश्रितम् ॥
से किं तं सुअनिस्सिअं ?, २ चउव्विहं पण्णत्तं, तंजहा - उग्गह १ ईहा २ अवाओ ३ धारणा ४ ( सू० २७ )
'से किं तमित्यादि, अथ किं तच्छ्रुतनिश्रितं मतिज्ञानं ?, गुरुराह - श्रुतनिश्रितं मतिज्ञानं चतुर्विधं प्रज्ञसं, तद्यथा - अवग्रह ईहा अपायो धारणा च तत्र अवग्रहणमवग्रहः – अनिर्देश्यसामान्यमात्ररूपार्थग्रहणमित्यर्थः, यदाह चूर्णिकृत् – “सामन्नस्स रूवादिविसेसणरहियस्स अनिसस्स अवग्गहणमवग्गह" इति । तथा ईहन - मीहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः किमुक्तं भवति -- अवग्रहादुत्तरकालमवायात्पूर्व सद्भूतार्थ| विशेषोपादानाभिमुखोऽसद्भूतार्थविशेषपरित्यागाभिमुखः प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधर्म्मा दृश्यंते न खरकर्कशनिष्ठुरतादयः शार्ङ्गादिशब्दधर्म्मा इत्येवंरूपो मतिविशेष ईहा, आह च भाष्यकृत् - "भूयाभूयविसेसादाणच्चायाभिमुहमीहा” तथा तस्यैवावगृहीतस्येहितस्यार्थस्य निर्णयरूपोऽध्यवसायोऽवायः शाङ्ख एवायं शार्ङ्ग एवा (व वा ) यमित्यादिरूपोऽवधारणात्मक प्रत्ययोऽवाय इत्यर्थः, तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, सा च त्रिधा - अविच्युतिर्वासना स्मृतिश्च तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्त्तप्रमाणा, ततस्तयाऽऽहितो यः संस्कारः स वासना, सा च सङ्ख्येयमसङ्ख्येयं वा कालं यावद्भवति, ततः कालान्तरे कुतश्चि
ternational
For Personal & Private Use Only
श्रुतनिचितमतिभेदाः
सू. २७
५
१०
| १३
www.jainelibrary.org