SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ भीमलय-18 ततस्ते समागत्य राजानं विज्ञपयामासुः-देव! स विशेषतः सत्कारणीय इति, ततो राजा परितोषमुपाग-3 परिणामिगिरीया तस्तान् प्रशंसितवान-को नाम वृद्धान् विहायान्य एवंविधबुद्धिभाग् भवति, ततः सदैव स्थविरान् पार्थे क्युदानन्दीवृत्तिः हरणानि धारयामास न तरुणानिति, राज्ञः स्थविराणां च पारिणामिकी बुद्धिः । 'आमंडे'त्ति कृत्रिममामलकमिति, गा.७१-४ ॥१६७॥ कठिनत्वादकालत्वाच केनापि यथावस्थितं ज्ञातं तस्य पारिणामिकी बुद्धिः । 'मणि'त्ति कोऽपि सो वृक्षमारुह्य सदैव पक्षिणामण्डानि भक्षयति, अन्यदा च स वृक्षस्थितो निपतितः, मणिश्च तस्य तत्रैव क्वचित् प्रदेशे स्थितः, तस्य च वृक्षस्याधस्तात् कूपोऽस्ति, उपरिस्थितमणिप्रभाच्छुरितं च सकलमपि कूपोदकं रक्तीभूतमुपलक्ष्यते, कृपादाकृष्टं च खाभाविकं दृश्यते, एतच्च बालकेन केनापि निजपितुः स्थविरस्य निवेदितं, सोऽपि तत्र समागत्य सम्यक्परिभाव्य मणिं गृहीतवान. तस्य पारिणामिकी बुद्धिः । 'सप्पे'त्ति सर्पस्य चण्डकौशिकस्य भगवन्तं दप्रति या चिन्ताऽभूत-इंगयं महात्मेत्यादिका सा पारिणामिकी बुद्धिः । 'खग्ग'त्ति कोऽपि श्रावकः प्रथमयौवनमद-14 मोहितमना धर्ममकृत्वा पञ्चत्वमुपागतः खड्गः समुत्पन्नः, यस्य गच्छतो द्वयोरपि पार्थयोश्चर्माणि लम्बन्ते स जीव विशेषः खड्गः, स चाटव्यां चतुष्पथे जनं मारयित्वा खादति, अन्यदा च तेन पथा गच्छतः साधून् दृष्टवान् , स चा-12॥१६७॥ क्रिमितं न शक्नोति, ततस्तस्य जातिस्मरणं भक्तप्रत्याख्यानं देवलोकगमनं, तस्य पारिणामिकी बुद्धिः। 'थूभ'(भिंदे)त्ति ४२५ विशालायां पुरि कूलवालकेन विशालाभङ्गाय यन्मुनिसुव्रतखामिपादुकास्तूपोत्खातनं सा तस्य पारिणामिकी बुद्धिः। RECEROSAMROSECORRORESEX Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy