________________
पारिणामिक्युदाहरणानि गा.७१-४
ASRASH
मात्यस्य ब्रह्मदत्तकुमारविनिर्गमनाय यत् सुरङ्गाखाननं, सा पारिणामिकी बुद्धिः। 'खमए'त्ति क्षपकस्य कोपवशेन मृत्वा सप्पत्वेनोत्पन्नस्य ततोऽपि मृत्वा जातराजपुत्रस्य प्रव्रज्याप्रतिपत्ती चतुरः क्षपकान् पर्युपासीनस्य यद्भोजनवेलायां तैः क्षपकैः पात्रे निष्ठ्यूतनिक्षेपेऽपि क्षमाकरणमात्मनिन्दनं क्षपकगुणप्रशंसा सा पारिणामिकी बुद्धिः । 'अमचपुत्ते'त्ति अमात्यपुत्रस्य वरधनुर्नाम्नो ब्रह्मदत्तकुमारविषये दीर्घपृष्ठस्वरूपज्ञापनादिषु तेषु २ प्रयोजनेषु पारिणामिकी बुद्धिः। 'चाणके'त्ति चाणाक्यस्य चन्द्रगुप्तस्य राज्यमनुशासतो भाण्डागारे निष्ठिते सति यदेकदिवसजाताश्वादियाचनं सा पारिणामिकी बुद्धिः। 'थलभहे'त्ति स्थलभद्रखामिनः पितरिमारित नन्देनामात्यपदपरिपालनाय प्राध्येमानस्यापि यत्प्रव्रज्याप्रतिपत्तिकरणं सापारिणामिकी बुद्धिः।नासिकसंदरिनंदे'त्ति नासिक्यपुरे सुन्दरीभर्तृनन्दस्य भ्रात्रा साधना यन्मेरुशिरसि नयनं यच देवमैथनकं दर्शितं सा पारिणामिकी बद्धिः। 'वहर'त्ति वज्रखामिनो बालभावेऽपि वर्तमानस्य मातरमवगणय्य सङ्घबहुमानकरणं सा पारिणामिकी बद्धिः। 'चलणाहण'ति कोऽपि राजा तरुणेव्युद्वाह्यते-यथा देव! तरुणा एव पार्थे प्रियन्तां. किं स्थविरैः बलिपलितविशोभितशरीरैः?, ततो राजा तान् प्रति परीक्षानिमित्तं ब्रूते-यो मां शिरसि पादेन ताडयति तस्य को दण्ड इति ?, ते प्राहुः-तिलमात्राणि खण्डानि स विकृत्य मार्यते इति, ततः स्थविरान् पप्रच्छ. तेऽवोचत-देव! परिभाव्य कथयामः, ततस्तैरकान्ते गत्वा चिन्तितं-को नाम हृदयवल्लभां देवीमतिरिच्यान्यो देवं शिरसिं ताडयितुमीष्टे, हृदयवल्लभा च विशेषतः सन्माननीयेति,
REE
www.jainelibrary.org
For Personal & Private Use Only
LAnternational