________________
रयोजनामात्रमेव केवलं करिष्यते । तत्र 'अभय'त्ति अभयकुमारस्य यचण्डप्रद्योताद्वरचतुष्टयमार्गणं यचण्डप्रद्योतं पारिणामिदाबवा नगरमध्येनारटन्तं नीतवानित्यादि सा पारिणामिकी बुद्धिः । 'सेटि'त्ति काष्ठश्रेष्टी, तस्य यत्स्वभार्यादुश्चरित-18 क्युदा
हरणानि मवलोक्य प्रव्रज्याप्रतिपत्तिकरणं, यच पुत्रे राज्यमनुशासति वर्षाचतुर्मासकानन्तरं विहारक्रमं कुर्वतः पुत्रसमक्षं
|गा.७१-४ धिरजातीयैरुपस्थापिताया यक्षरिकाया आपन्नसत्त्वायास्त्वदीयोऽयं गर्भस्त्वं च ग्रामान्तरं प्रति चलितः ततः कथमहं भविष्यामीति वदन्याः प्रवचनापयशोनिवारणाय यदि मदीयो गर्भस्ततो योनेर्विनिर्गच्छतु नो चेदुदरं भित्त्वा , विनिर्गच्छत्विति यत् शापप्रदानं, सा परिणामिकी बुद्धिः । 'कुमारे'त्ति मोदकप्रियस्य कुमारस्य प्रथमे वयसि वर्तमानस्य कदाचिद्गुणन्यां गतस्य प्रमदादिभिः सह यथेच्छं मोदकान् भक्षितवतोऽजीर्णरोगप्रादुर्भावादतिपूतिगन्धि | वातकायमुत्सृजतो या उद्गता चिन्ता, यथा अहो! तादृशान्यपि मनोहराणि कणिक्कादीनि द्रव्याणि शरीरसम्पर्कवशात्पूतिगन्धानि जातानि, तस्माद् धिगिदमशुचि शरीरं, धिग्मोहो, यदेतस्यापि शरीरस्य कृते जन्तुः पापान्यारभते, इत्यादिरूपा सा पारिणामिकी बुद्धिः, तत ऊझे तस्य शुभशुभतराध्यवसायभावतोऽन्तर्मुहूर्तेन केवलज्ञानोत्पत्तिः । |'देवित्ति देव्याः पुष्पवत्यभिधानायाःप्रव्रज्यां परिपाल्य देवत्वेनोत्पन्नाया यत्पुष्पचूलाभिधानायाः खपुत्र्याः खग्ने नरकदेवलोकप्रगटनेन प्रबोधकरणं सा पारिणामिकी बुद्धिः। 'उदिओदए'त्ति उदितोदयस राज्ञः श्रीकान्तापतेः पुरिमतालपुरे राज्यमनुशासतः श्रीकान्तानिमित्तं वाणारसीवास्तव्येन धर्मरुचिना राज्ञा सर्वबलेन समागत्य निरुद्धस्य |
m
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org