________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥१६५॥
थूलभदे अ १३ | नासिक सुंदरिनंदे १४ वइरे १५ परिणामबुद्धीं ॥ ७३ ॥ चलणा१६ आमंडे १७ मणी अ १८ सप्पे अ १९ खग्गि २० थूभिंदे २१ । परिणामियबुद्धीए एवमाई उदाहरणा ॥ ७४ ॥ से तं असुअनिस्सियं ॥
'अणुमाणे 'त्यादि, लिङ्गालिङ्गिनि ज्ञानमनुमानं तच स्वार्थानुमानमिह द्रष्टव्यं, अन्यथा हेतुग्रहणस्य नैरर्थक्यापत्तेः, अनुमानप्रतिपादकं वचो हेतुः परार्थानुमानमित्यर्थः, अथवा ज्ञापकमनुमानं, कारकं हेतुः, दृष्टान्तः प्रतीतः, आहअनुमानग्रहणेन दृष्टान्तस्य गतत्वादलमस्योपन्यासेन, उच्यते, अनुमानस्य क्वचिदृष्टान्तमन्तरेणान्यथानुपपत्तिग्राहकप्रमाणबलेन प्रवृत्तेः, यथा सात्मकं जीवच्छरीरं, प्राणादिमत्त्वान्यथानुपपत्तेः न च दृष्टान्तोऽनुमानस्याङ्ग, यत उक्तम्"अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ?” ततः पृथग् दृष्टान्तस्योपादानं, तत्र साध्यस्योपमाभूतो दृष्टान्तः, तथा चोक्तम् - " यः साध्यस्योपमाभूतः, [स] दृष्टान्त इति कथ्यते ।" अनुमानहेतुदृष्टान्तैः साध्यमर्थ साधयतीति अ|नुमानहेतुदृष्टान्तसाधिका, तथा कालकृतो देहावस्थाविशेषो वयस्तद्विपाके परिणामः - पुष्टता यस्याः सा वयोविपाकपरिणामा, तथा हितम् — अभ्युदयो निःश्रेयसं - मोक्षस्ताभ्यां फलवती, ते द्वे अपि तस्याः फले इत्यर्थः, बुद्धिः परिणामिकी नाम । अस्या अपि शिष्यगणहितायोदाहरणैः खरूपं प्रकटयति- 'अभये ' इत्यादिगाथात्रयं, अस्यार्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि प्रायोऽतीव गुरूणि प्रसिद्धानि च ततो ग्रन्थान्तरेभ्योऽवसेयानि, इह त्वक्ष
Jain Educationonal
For Personal & Private Use Only
पारिणामि
क्युदाहरणानि गा. ७१-४
२०
॥१६५॥
२५
www.jainelibrary.org