SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सम्मूढानां, यथा हि मानवा लकुटादिप्रहारजर्जरीकृतशिरःप्रभृत्यवयवा वेदनातिशयभावतः सम्मूढचेतना नातीवी परत्र संक्लिश्यमाना उपलभ्यन्ते, तथा नारका अपि सदैव द्रष्टव्याः, ततः तथाविधतीव्रसंक्लेशाभावात् नारकाणां नाभिनवप्रभूततरपापोपचयः, यद्येवं तर्हि सम्मोहो महोपकारी, तथाहि-सम्मोहवशान्न परत्रातीव संक्लेशः, ती वेदनाभावतश्च प्राग्बद्धपापकर्मपरिक्षयः, सम्मोहश्च हिंस्रव्यापारादुपजायते, ततो हिंसका महोपकारिण इति सिहद्धमस्मत्समीहितं, तदयुक्तम् , हिंसकानां परपीडोत्पादनतः क्लिष्टकर्मबन्धप्रसक्तेः, न खलु पापस्य परपीडामतिरि च्यान्यन्निबन्धनमीक्षामहे, यदि स्यात्तर्हि मुक्तानामपि पापबन्धप्रसङ्गः, तेषामाहंसकत्वात् , ततः कथमिव सचेतनो | मनसाऽपि परं व्यापादयितुमुत्सहते ? इत्यलं पापचेतोभिः सह प्रसङ्गेन । तथा 'जयति जगत्पितामहः' इति (ग्रन्थानं, १५३७) इह जगच्छब्देन सकलसत्त्वपरिग्रहः, ततश्च जगतां-सकलसत्त्वानां नरकादिकुगतिविनिपातभयापायरक्षणात् पितेव पिता-सम्यग्दर्शनमूलोत्तरगुणसंहतिखरूपो धर्मः, स हि दुर्गतौ प्रपततो जन्तून् रक्षति शुभे च निःश्रेय-12 सादौ स्थाने स्थापयति, तथा चोक्तं निरुक्तिशास्त्रवेदिभिः-“दुर्गतिप्रसृतान् जन्तून् , यस्माद्धारयते ततः। धत्ते चैतान् । शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥" ततः सकलस्थापिप्राणिगणस्य पितृतुल्यः, तस्यापि च पिता भगवान् , अर्थतः तेन प्रणीतत्वात् , ततो भगवान् जगत्पितामहः, जयतीति पुनः क्रियाभिधानं स्तवाधिकाराददुष्टम् , उक्तं च-"सज्झायझाण१ खाध्यायध्यानतपऔषधेषु उपदेशस्तुतिप्रदानेषु । सद्गुणोत्कीर्तनेषु च न भवन्ति पुनरुकदोषास्तु ॥ १॥ 6054 Jain Educa t ional For Personal & Private Use Only Amew.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy