SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥१६०॥ वचनमिति, तेनोक्तं – परिभावितं मया सर्वे, नान्यथा तव ज्ञानमिति, ततस्तौ हस्तपादान् प्रक्षाल्य तस्मिन् महास| रस्तटे न्यग्रोधतरोरधो विश्रामाय स्थिती, दृष्टौ च कयाचिच्छिरोन्यस्तजलभृतघटिकया वृद्धस्त्रिया, परिभाविता च तयोराकृतिः, ततश्चिन्तयामास - नूनमेतौ विद्वांसौ, ततः पृच्छामि देशान्तरगतनिजपुत्रागमनमिति, पृष्टं तथा, प्रश्नसमकालमेव च शिरसो निपत्य भूमौ घटः शतखण्डशो भग्नः, ततो झटित्येवाविमृश्यकारिणा प्रोचे - गतस्ते पुत्रो घट इव व्यापत्तिमिति, विमृश्यकारी ब्रूते स्म - मा वयस्यैवं वादीः, पुत्रोऽस्या गृहे समागतो वर्त्तते, याहि मात - वृद्धे ! स्त्रि ! खपुत्रमुखमवलोकय, तत एवमुक्ता सा प्रत्युज्जीवितेवाशीर्वादशतानि विमृश्यकारिणः प्रयुआना स्वगृहं जगाम, दृष्टश्चोद्धूलितजङ्घः स्वपुत्रो गृहमागतः, ततः प्रणता स्वपुत्रेण सा चाशीर्वादं निजपुत्राय प्रायुक्त, कथया| मास च नैमित्तिकवृत्तान्तं, ततः पुत्रमापृच्छय वस्त्रयुगलं रूपकांश्च कतिपयानादाय विमृश्यकारिणः समर्पयामास, अविसृश्यकारी च खेदमावहन् खचेतसि अचिन्तयत्- नूनमहं गुरुणा न सम्यक् परिपाठितः कथमन्यथाऽहं न जानामि ? एष जानातीति, गुरुप्रयोजनं कृत्वा समागतौ द्वौ गुरोः पार्श्वे, तत्र विमृश्यकारी दर्शनमात्र एव शिरो नमयित्वा कृताञ्जलिपुटः सबहुमानमानन्दाश्रुप्लावितलोचनो गुरोः पादावन्तरा शिरः प्रक्षिप्य प्रणिपपात, द्वितीयोऽपि च शैलस्तम्भ इव मनागप्यनमितगात्रयष्टिर्मात्सर्यवह्निसम्पर्कतो धूमायमानोऽवतिष्ठते, ततो गुरुस्तं प्रत्याह - रे किमिति पादयोर्न पतसि ?, स प्राह-य एव सम्यक् पाठितः स एव पतिष्यति, नाहमिति, गुरुराह Jain Education International For Personal & Private Use Only वैनयिक्यां निमित्त दृष्टान्तः २० ॥ १६० ॥ २५ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy