SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ IMI गाथाद्वयार्थः कथानकेभ्योऽवसेयः, तानि च ग्रन्थगौरवभयात्संक्षेपेणोच्यन्ते-तत्र 'निमित्ते' इति, क्वचित्पुरे वैनयिक्यां कोऽपि सिद्धपुत्रकः, तस्य द्वौ शिष्यौ निमित्तशास्त्रमधीतवन्तौ, एको बहुमानपुरस्सरं गुरोविनयपरायणो यत्कि-IRTER निमित्त दृष्टान्तः मपि गुरुरुपदिशति तत्सर्वं तथेतिप्रतिपद्य स्वचेतसि निरन्तरं विमृशति, विमृशतश्च यत्र कापि सन्देह उपजायते । तत्र भूयोऽपि विनयेन गुरुपादमूलमागत्य पृच्छति, एवं निरन्तरं विमर्शपूर्व शास्त्रार्थ तस्य चिन्तयतः प्रज्ञा प्रकर्षमुप-28 जगाम, द्वितीयस्त्वेतद्भुणविकलः, तो चान्यदा गुरुनिर्देशात् क्वचित्प्रत्यासन्ने ग्रामे गन्तुं प्रवृत्ती, पथि च कानिचित् ||५ महान्ति पदानि तावदर्शतां, तत्र विमृश्यकारिणा पृष्टं-भोः कस्यामूनि पदानि ?, तेनोक्तं-किमत्र प्रष्टव्यं हस्तिBानोऽमूनि पदानि ?, ततो विमृश्यकारी प्राह-मैवं भाषिष्ठाः, हस्तिन्या अमूनि पदानि, सा च हस्तिनी वामेन च-II क्षुपा काणा, तां चाधिरूढा गच्छति काचिद्राज्ञी, सा च सभर्तृका गुर्वी च प्रजने कल्या, अद्य श्री वा प्रसविष्यति, पुत्रश्च तस्या भविष्यति, तत एवमुक्ते सोऽविमृश्यकारी ब्रूते-कथमेतदवसीयते ?, विमृश्यकारी प्राह-'ज्ञानं प्रत्य-181 यसार'मित्यग्रे प्रत्ययतो व्यक्तं भविष्यति, ततः प्राप्तौ तौ विवक्षितं ग्राम, दृष्टा चावासिता तस्य ग्रामस्य बहिःप्रदेशे महासरस्तटे राज्ञी, परिभाविता च हस्तिनी वामेन चक्षुषा काणा (ग्रन्थाग्रं-५०००) अत्रान्तरे च काचिद्दास-18 चेडी महत्तमं प्रत्याह-वीप्यसे राज्ञः पुत्रलाभेनेति, ततः शब्दितो विमृश्यकारिणा द्वितीयः-परिभावय दासचेडी-||१२ . 3ROSASUSASISAUG an Education interna For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy