SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ औत्पत्तिक्यां नीति श्रीमलय- गिरीया नन्दीवृत्तिः ॥१५८॥ शास्त्रं यपिण्डा नद्या प्रक्षिप्यन्ते इति, तैरपि यथा गुरवो व्याचक्षते तथेति प्रतिपन्नं, ततो विवक्षितरात्रौ तैरीश्वरपुत्रैः समं स्नानमन्त्रपुरस्सरं ते सर्वेऽपि गोमयपिण्डा नद्यां प्रक्षिप्ताः, ततः समागतो गृहं, तेऽपि गोमयपिण्डा नीता बन्धुभिः खग्रामे,ततः कतिपयदिनातिक्रमे तानीश्वरपुत्रान् तेषां च पित्रादीन् प्रत्येकं मुत्कलाप्यात्मानं च वस्त्रमात्रपदरिग्रहोपेतं दर्शयन् सर्वजनसमक्षं स्वग्राम जगाम, पित्रादिभिश्च परिभावितो नास्य पार्श्वे किमप्यस्तीति न मारितः। तस्योत्पत्तिकी बुद्धिः २४ । 'अत्थसत्थे'त्ति अर्थशास्त्रम्-अर्थविषयं नीतिशास्त्र, दृष्टान्तभावना-कोऽपि वणिक, तस्य द्वे पत्या. एकस्याः पुत्रोऽपरा वन्ध्या, परं साऽपि पुत्रं सम्यक् पालयति, ततः पुत्रो विशेष नावबुध्यते-यथेयं मे जननी नेयमिति, सोऽपि वणिक् सभार्यापुत्रो देशान्तरमगमत् यत्र सुमतिखामिनस्तीर्थकृतो जन्मभूमिः, तत्र च गतमात्र एव दिवं गतः, सपत्नयोश्च परस्परं कलहोऽभूत् , एका ब्रूते-ममैष पुत्रस्ततोऽहं गृहखामिनी, द्वितीया ब्रूते-अहमिति, ततो राजकुले व्यवहारो जातः, तथापि न निलति, एतच्च भगवति तीर्थकरे सुमतिखामिनि गर्भस्थे तजनन्या मङ्गलादेव्या जज्ञे, अत आगारिते द्वे अपि सपन्यो, ततो देव्या प्रतिपादितं-कतिपयदिनानन्तरं मे पुत्रो भविष्यति', स| च वृद्धिमधिरूढोऽस्साशोकपादपस्याधस्तादुपविष्टो युष्माकं व्यवहारं छेत्स्यति,तत एतावन्तं कालं यावदविशेषेण खा- दतां पिवतामिति, ततो न यस्याः पुत्रः साऽचिन्तयत्-लब्धस्तावदेतापान कालः, पश्चात् किमपि यद्भविष्यति तन्न जानीमः, ततो हृष्टबदनया तया प्रतिपन्न, ततो देव्या जज्ञे-नैषा पुत्रस्य मातेति निर्भसिता, द्वितीया च गृहखा ॥१५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy