SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ मिनी कृता । देव्या औत्पत्तिकी बुद्धिः २५ । 'इच्छा य मह' त्ति काचित् स्त्री, तस्या भत्ती पञ्चत्वमधिगतः, सा च वृद्धिप्रयुक्तं द्रव्यं लोकेभ्यो न लभते, ततः पतिमित्रं भणितवती - मम दापय लोकेभ्यो धनर्मिति, ततस्तेनोक-यदि मम भागं प्रयच्छसि ततोऽनयोक्तं यदिच्छसि तन्मह्यं दद्या इति, ततस्तेन लोकेभ्यः सर्व द्रव्यमुद्राहित, तस्यै स्तोकं प्रयच्छति सा नेच्छति, ततो जातो राजकुले व्यवहारः, ततः कारणिकैर्यदुद्वाहितं द्रव्यं तत्सर्वमानायितं कृतौ द्वौ भागौ, एको महान् द्वितीयोऽल्प इति, ततः पृष्टः कारणिकैः स पुरुषः - कं भागं त्वमिच्छसि ?, स प्राह - महान्तं इति, ततः कारणिकैरक्षरार्थो विचारितो यदिच्छसि तन्मयं दद्या इति, त्वमिच्छसि महान्तं भागं ततो महान् भाँग एतस्याः, द्वितीयस्तु तवेति । कारणिकानामौत्पत्तिकी बुद्धिः २६ । 'सयसहस्से' त्ति कोऽपि परित्राजकः, तस्य रूप्यमयं महाप्रमाणं भाजनं खोरयसंज्ञं, स च यदेकवारं शृणोति तत्सर्वं तथैवावधारयति, ततः स निजप्रज्ञागर्वमुद्वहन् सर्वसमक्षं प्रतिज्ञां कृतवान्- यो नाम मामपूर्वं श्रावयति तस्मै ददामीदं भाजनमिति, न च कोऽप्यपूर्वं श्रावयितुं शक्नोति स हि यत्किमपि शृणोति तत्सर्वमस्खलितं तथैवानुवदति, वदते च-अग्रेऽपीदं मया श्रुतं कथमन्यथाऽहमस्खलितं भणामीति, तत्सर्वत्र ख्यातिमगमत्, ततः केनापि सिद्धपुत्रकेण ज्ञाततत्प्रतिज्ञेन तं प्रत्युक्तम् - अहमपूर्व श्रावयिष्यामि, ततो मिलितो भूयान् लोको राजसमक्षं व्यवहारो बभूव ततः सिद्धपुत्रोऽपाठीत - "तुज्झ पिया मह पिउणो धारेइ १ तव पिता मम पितुर्धारयति अनूनं शतसहस्रम् । यदि श्रुतपूर्वं ददातु अथ न श्रुतं खोरकं ददातु ॥ १ ॥ Jain Education International For Personal & Private Use Only औत्पत्चिक्यामिच्छा ममशत सहस्रं च ५ १० १२ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy