SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥१५३॥ देशत्यागेन, तेनापि जज्ञे - नूनमकथयत् पूर्ववृत्तान्तं देवो देव्याः, तेन मे चुकोप देवी, ततो महान्तमुपानहां भरमादाय गतो देवीसकाशं, विज्ञपयामास देवीं-देवि ! यामो देशान्तराणि, देवी उपानहां भरं पार्श्वे स्थितं दृष्ट्वा पृष्टवती-रे किमेष उपानहाम्भरः १, सोडवादीत् - देवि ! यावन्ति देशान्तराण्येतावतीभिरुपानद्भिर्गन्तुं शक्ष्यामि तावत्सु देव्याः | कीर्त्तिर्विस्तारणीया, तत एवमुक्ते मा मे सर्वत्रापकीर्तिर्जायेतेति परिभाव्य देवी बलात्तं धारयामास । विटस्यौत्पत्तिकी बुद्धिः १० | 'गोलो' त्ति गोलकोदाहरणं, तद्भावना- लाक्षागोलकः कस्यापि बालकस्य कथमपि नासिकामध्ये प्रविष्टः, ततस्तन्मातापितरावतीवात बभूवतुः, दर्शितो बालकः सुवर्णकारस्य, तेन सुवर्णकारेण प्रतप्ताग्रभागया लोहशला - कया शनैः शनैर्यलतो लाक्षागोलको मनाक् प्रताप्य सर्वोऽपि समाकृष्टः । सुवर्णकारस्यौत्पत्तिकी बुद्धिः ११ । 'खंभ' - त्ति स्तम्भोदाहरणं, तद्भावना - राजा मन्त्रिणमेकं गवेषयन् महाविस्तीर्णतटाकमध्ये स्तम्भमेकं निक्षेपयामास तत एवं घोषणां कारितवान्न्यो नाम तटे स्थितोऽमुं स्तम्भं दवरकेण बनाति तस्मै राजा शतसहस्रं प्रयच्छतीति, तत एवं घोषणां श्रुत्वा कोऽपि पुमान् एकस्मिन् तटप्रदेशे कीलकं भूमौ निक्षिप्य दवरकेण बद्धा तेन दवरकेण सह सर्वतस्तटे परिभ्रमन् मध्यस्थितं तं स्तम्भं बद्धवान्, लोकेन च बुद्ध्यतिशयसम्पन्नतया प्रशंसितो, निवेदितश्च राज्ञो राजनियुक्तैः पुरुषैः, तुतोष राजा, ततस्तं मत्रिणमकार्षीत् । तस्य पुरुषस्यौत्पत्तिकी बुद्धिः १२ । 'खुल्लक' त्ति थुलकोदाहरणं, तद्भावना - कस्मिंश्चित्पुरे काचित् परिव्राजिका, सा यो यत्करोति तदहं कुशलकर्मा सर्व करोमीति राज्ञः समक्षं प्रतिज्ञां Jain Education International For Personal & Private Use Only औत्पत्तिक्यां गोल स्तम्भ क्षुल्लक दृष्टान्ताः २० ॥१५३॥ २५ २६ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy