________________
मद्भार्यया च धूर्त्तेनान्यत्किमप्युक्तं, ततो दत्तं तस्याः कारणिकैर्विरेकौषधं, जातो विरेको, दृष्टाः पुरीषान्तर्गतास्तिलाः, दत्ता सा धिग्जातीयाय, निर्धाटितो धूर्त्तः । कारणिकानामौत्पत्तिकी बुद्धिः ८ । 'गय'त्ति गजोदाहरणं, तद्भावनावसन्तपुरे नगरे कोऽपि राजा बुद्ध्यतिशयसम्पन्नं मत्रिणमेकमन्वेषमाणञ्चतुष्पथे हस्तिनमालानस्तम्भे बन्धयित्वा घोपणामचीकरत्-योऽमुं हस्तिनं तोलयति तस्मै राजा महतीं वृत्तिं प्रयच्छतीति, इमां च घोषणां श्रुत्वा कश्चिदेकः पुमान् तं हस्तिनं महासरसि नावमारोहयामास, अस्मिंश्वारूढे यावत्प्रमाणा नौर्जले निमग्ना तावत्प्रमाणां रेखामदात्, ततः समुत्तारितो हस्ती तटे, प्रक्षिप्ता गण्डशैलकल्पा नावि ग्रावाणः, ते च तावत्प्रक्षिप्ता यावद्रेखां मर्यादी - कृत्य जले निमग्ना नौः, ततस्तोलिताः सर्वे ते पाषाणाः, कृतमेकत्र पलप्रमाणं निवेदितं च राज्ञे देव! एतावत्पलप्रमाणो हस्ती वर्त्तते, ततस्तुतोष राजा, कृतो मन्त्रिमण्डलमूर्द्धाभिषिक्तः परममन्त्री । तस्योत्पत्तिकी बुद्धिः ९ । 'घयणत्ति' भाण्डः, तदुदाहरणं-विटो नाम कोऽपि पुरुषो राज्ञः प्रत्यासन्नवर्त्ती, तं प्रति राजा निजदेवीं प्रशंसति - अहो निरामया मे देवी या न कदाचिदपि वातनिसर्ग विदधाति, विटः प्राह - देव ! न भवतीदं जातुचित्, राजाऽवादीत्कथं १, विट आह-देव ! धूर्त्ता देवी, ततो यदा सुगन्धीनि पुष्पाणि चूर्णयित्वा वासान् समर्पयति नासिकाग्रे तदा ज्ञातव्यं - वातं विमुञ्चतीति, ततोऽन्यदा राज्ञा तथैव परिभावितं सम्यगवगते च हसितं, ततो देवी हसननिमित्तकथनाय निर्बन्धं कृतवती, ततो राजाऽति निर्वन्धे कृते पूर्ववृत्तान्तमचीकथत्, ततचुकोप देवी तस्मै विटाय, आज्ञतो
Jain Edulernational
For Personal & Private Use Only
औत्पचि
क्यांगज
घृतन
दृष्टान्तौ
५
१०
१३
www.jainelibrary.org