SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥१४८॥ कलितः शेषो ग्रामलोकः, रोहकः पुनरात्मपार्श्वे शायितः, गते च यामिन्याः प्रथमयामे रोहकः शब्दितो राज्ञा-रे औत्पत्तिकी जागर्षि किंवा स्वपिषि ?, स प्राह-देव ! जागर्मि, रे तर्हि किं चिन्तयसि ?, स प्राह-देव! अश्वत्थपत्राणांकि दण्डो बुद्धिमहान् उत शिखेति ?, तत एवमुक्ते राजा संशयमापन्नो वदति-साधु चिन्तितं, कोऽत्र निर्णयः ?, ततो राजा तमेव | दृष्टान्ता पृष्टवान् रे कथय कोऽत्र निर्णय इति ?, तेनोक्तं-देव ! यावदद्यापि शिखाग्रभागो न शोषमुपयाति तावद्वे अपि समे, ततो राज्ञा पार्थवर्ती लोकः पृष्टः, तेन च सर्वेणाप्यविगानतः प्रतिपन्नं । ततः भूयोऽपि रोहकः सुप्तवान् , पुनरपि द्वि-18 तीये यामेऽपगते राज्ञा शब्दितः पृष्टश्च-किरे जागर्षि किंवा खपिषि?, स प्राह-देव! जागर्मिम, रे किं चिन्तयसि?, देव ! छागिकाया उदरे कथं भ्रम्युत्तीर्णा इव वर्तुलगुलिका जायन्ते ?, तत एवमुक्ते राजा संशयापनस्तमेव पृष्टवान्कथय रे रोहक! कथमिति ?, स प्राह-देव ! संवर्तकाभिधवातविशेषात् । ततः पुनरपि रोहकः सुधाप, तृतीये च रजन्या यामेऽपगते भूयोऽपि राज्ञा शब्दितः-किं रे जागर्षि किं वा खपिपि ?, सोऽवादीत्-देव! जागर्मि, किं रे | चिन्तयसि ?, देव ! पाडहिलाजीवस्य यावन्मानं शरीरं तावन्मानं पुच्छमुत न्यूनाधिकमिति ?, तत एवमुक्ते राजा निर्णयं कर्तुमशक्तस्तमेवापृच्छत्-कोऽत्र निर्णयः ?, सोऽवादीद्-देव ! सममिति । ततो रोहकः सुप्तः, प्राभाति के ॥१५॥ च मङ्गलपटहनिस्वने सर्वत्र प्रसरमधिरोहति राजा प्रबोधमुपजगाम, शब्दितवांश्च रोहकं, स च निद्राभरमुपारूढो न प्रतिवाचं दत्तवान् , ततो राजा लीलाकम्बिकया मनाक् तं स्पृष्टवान् , ततः सोऽपगतनिद्रो जातः, पृष्टश्च किं रे | Jain Education International For Personal & Private Use Only .jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy