________________
श्रीमलय- है भविष्यन्तीति तन्मध्यादेकः कश्चित् प्रतिच्छन्दभूतः प्रेषणीयो येन तदनुसारेण वयमपि वालुकामयान् दवरकान् कुर्म ओत्पत्तिकी गिरीया इति, ततो निवेदितमेतद्राज्ञे नियुक्तपुरुषैः, राजा च निरुत्तरीकृतस्तूष्णीमास्ते । ततः पुनरपि कतिचिदिनानन्तरं
बुद्धिनन्दीवृत्तिः
जाता जीर्णहस्ती रोगग्रस्तो मुमूर्षुमे राजा प्रेषितो, यथाऽयं हस्ती मृत इति न निवेदनीयो, अथ च प्रतिदिवसमस्य वार्ता ॥१४७॥ कथनीया. अकथने महान ग्रामस्य दण्डः, एवं च राजादेशे समागते तथैव मिलितः सर्वोऽपि बहिः सभायां ग्रामः,
है पृष्टश्च रोहकः, ततो रोहकेणोक्तं-दीयतामस्मै यवसः पश्चाद् यद्भविष्यति तत्करिष्यामि, ततो रोहकादेशेन दत्तो |यवसस्तस्मै, रात्रौ च स हस्ती पञ्चत्वमुपागमत् , ततो रोहकवचनतो ग्रामेण गत्वा राज्ञे निवेदितं-देव! अद्य हस्ती न निपीदति नोत्तिष्ठति न कवलं गृह्णाति नापि नीहारं करोति नाप्युच्छासनिश्वासौ विदधाति, किं बहुना ?, देव ! कामपि सचेतनचेष्टां न करोति, ततो राज्ञा भणितं-कि रे मृतो हस्ती ?, ततो ग्राम आह-देव ! देवपादा एवं |ब्रुवते, न वयमिति, तत एवमुक्ते राजा मौनमाधाय स्थितः, आगतो ग्रामलोकः स्वग्रामे । ततो भूयोऽपि कतिपय-13 दिनातिक्रमे राजा समादिष्टवान्-अस्ति यौष्माकीणे ग्रामे सुखादुजलसम्पूर्णः कूपः, स इह सत्वरं प्रेषितव्यः, तत१४॥ एवमादिष्टो ग्रामो रोहकं पृष्टवान् , रोहकश्चोवाच-एष ग्रामयकः कूपो, ग्रामेयकश्च खभावाद्भीरर्भवति न च सजा-|| तीयमन्तरेण विश्वासमुपगच्छति, ततो नागरिकः कश्चिदेकः कृपःप्रेष्यतां येन तत्रैष विश्वस्य तेन सह समागच्छतीति, एवं निरुत्तरीकृत्य मुत्कलिता राजनियुक्ताः पुरुषाः, तैश्च राज्ञो निवेदितं, राजा खचेतसि रोहकस्य बुद्ध्यतिशयं प
HI|२५
For Personal & Private Use Only
wwwjanelbrary.org
Jain Education