SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ प्राचीनमपि दुष्टराजादेशसिन्धुं त्वयैव निजबुद्धिसेतुबन्धेन समुत्तारितः सर्वोऽपि ग्रामः, ततः सम्प्रत्यपि प्रगुणीकुरु | बुद्धिनिजबुद्धिसेतुबन्धं येनास्यापि दुष्टराजादेशसिन्धोः पारमधिगच्छाम इति, तत उवाच रोहको-वृकं प्रत्यासन्नं धृत्वा दृष्टान्तार मेण्ढकमेनं यवसदानेन पुष्टीकुरुत, यवसं हि भक्षयनेष न दुर्बलो भविष्यति, वृकं च दृष्ट्वा न बलवृद्धिमाप्स्यतीति, ततस्ते तथैव कृतवन्तः, पक्षातिकमे च तं राज्ञः समर्पयामासुः, तोलने च स तावत्पलप्रमाण एव जातः। ततो भूयोऽपि कतिपयदिनानन्तरं राज्ञा कुर्कुटः प्रेषितः, एष द्वितीयं कुर्कुटं विना योधितव्य इति, एवं सम्प्राप्ते राजादेशे ||५ मिलितः सर्वोऽपि ग्रामो बहिः सभायाम् आकारितो रोहकः कथितश्च तस्य राजादेशः, ततो रोहकेणादर्शको महा-1 प्रमाण आनायितो निसृष्टश्च भूत्या सम्यक् , ततो धृतः पुरो राजकुर्कुटस्य, ततः स राजकुर्कुटः प्रतिबिम्बमात्मीयमादर्श । दृष्ट्वा मत्प्रतिपक्षोऽयमपरः कुकुट इति मत्वा साहकारं योद्धं प्रवृत्तो. जडचेतसो हि प्रायस्तियञ्चो भवन्ति. एवं चाप कुर्कुटमन्तरेण योधिते राजकुर्कुटे विस्मितः सर्वोऽपि ग्रामलोकः, सम्पादितो राजादेशः, निवेदितं च राज्ञो निजपुरुषैः।। 18 ततो भूयोऽपि कतिपयदिवसातिक्रमे राजा निजादेशं प्रेषितवान्-पुष्मद्रामस्य सर्वतः समीपे अतीव रमणीया वालुका विद्यन्ते, ततः स्थूला वालुकामयाः कतिपये दवरकाः कृत्वा शीघ्रं प्रेषणीया इति, एवं राजादेशे समागते मिलितः। सर्वोऽपि बहिः सभायां ग्रामः पृष्टश्च रोहकः, ततो रोहकेण प्रत्युत्तरमदायि-नटा वयं; ततो नृत्तमेव वयं कर्तुं जानीमो न दवरकादि, राजादेशश्चावश्य कर्त्तव्यः, ततो बृहद्राजकुलमिति चिरन्तना अपि कतिचिद्वालुकामया दवरका १३ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy