________________
श्रीमलयगिरीया
तानां तेषां मध्यन्दिनमागतं, रोहकश्च पितरमन्तरेण न भुते, पिता च ग्राममेलापके मिलितो वर्तते, ततः स त्यत्तिकी
क्षुधा पीडितः पितुः समीपे समागत्य रोदितुं प्रावर्त्तत-पीडितोऽहमतीव क्षुधा, ततः समागच्छ गृहे भोजनायेति, बुद्धिनन्दीवृत्तिः
भरतः प्राह-वत्स ! सुखितोऽसि त्वं, न किमपि ग्रामकष्टं जानासि, स प्राह-पितः ! किं किं तदिति ?, ततो भरतो दृष्टान्ताः ॥१४६॥ राजादेशं सविस्तरमचीकथत् , ततो निजबुद्धिप्रागल्भ्यवशात् झटिति कार्यस्य साध्यतां परिभाव्य तेनोक्तं-माऽऽकु-13
लीभवत यूयं, खनत शिलाया राज्ञोचितमण्डपनिष्पादनायाधस्तात् स्तम्भांश्च यथास्थानं निवेशयत भित्तीश्चोपलेप-15 नादिना प्रकारेणातीव रमणीयाःप्रगुणीकुरुत, तत एवमुक्त सर्वैरपि ग्रामप्रधानपुरुषैर्भव्यमिति प्रतिपन्नं, गतः सर्वोऽपि ग्रामलोकः स्वखगृहे भोजनाय, भुक्त्वा च समागतः शिलाप्रदेशे, प्रारब्धं तत्र कर्म, कतिपयदिनैश्च निष्पादितः परिपूर्णो मण्डपः, कृता च शिला तस्याच्छादनं, निवेदितं च राज्ञे राजनियुक्तैः पुरुषैः-देव! निष्पादितो ग्रामेण देवादेशः, राजा प्राह-कथमिति ?, ततस्ते सर्वमपि मण्डपनिष्पादनप्रकारं कथयामासुः, राजा पप्रच्छ-कस्येयं बुद्धिः?, तेऽवादिषुः-देव ! भरतपुत्रस्य रोहकस्य, एषा रोहकस्योत्पत्तिकी बुद्धिः । एवं सर्वेष्वपि संविधानकेषु योजनीयं, राजा रोहकबुद्धिपरीक्षार्थ मेण्ढकमेकं प्रेषितवान् , एवं यावत्पलप्रमाणः सम्प्रति वर्तते पक्षातिक्रमेऽपि
॥१४६॥ एतावत्पलप्रमाण एव समर्पणीयो, न न्यूनो नाप्यधिक इति, तत एवं राजादेशे समागते सति सर्योऽपि ग्रामो व्याकु-13/२५
लीभूतचेता बहिः सभायामेकत्र मिलितवान् , सगौरवमाकारितो रोहकः, आभाषितश्च ग्रामप्रधानः पुरुषः-वत्स !
w ततामयाराजाराहार
m Jain Education international
For Personal & Private Use Only
www.jainelibrary.org