SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ६ इतश्च राजा अश्ववाहनिकायामश्वं वाहयन् कथञ्चिदेकाकीभूतस्तेन पथा समागन्तुं प्रावर्त्तत, तं च खलिखितनगरी- आ औत्पत्तिकी लमध्येन समागच्छन्तं रोहकोऽवादीत्-भो राजपुत्र ! माऽनेन पथा समागमः, तेनोक्तं-किमिति ?, रोहक आह-किंIRIT त्वं राजकुलमिदं न पश्यसि ?, स राजा कौतुकवशात् सकलामपि नगरी तदालिखितामवैक्षत, पप्रच्छ च तं बा-14 लकं-रे अन्यदा त्वया नगरी दृष्टाऽऽसीन वा ?, रोहक आह-नैव कदाचित्, केवलमहमद्यैव खग्रामादिहागतः, साततश्चिन्तयामास राजा-अहो बालकस्य प्रज्ञातिशय इति, ततः पृष्टो रोहको-वत्स! किं ते नाम व वा ग्राम इति ?, | तेनोक्तं-रोहक इति मे नाम, प्रत्यासन्ने च पुरो ग्रामे वसामीति, अत्रान्तरे समागतो रोहकस्य पिता चलितौ च ६ | स्वग्राम प्रति द्वावपि, राजा च स्वस्थानमगमत् , चिन्तयति स्म च-ममैकोनानि मत्रिणां पञ्च शतानि विद्यन्ते, त द्यदि सकलमत्रिमण्डलमूर्धाभिषिक्तो महाप्रज्ञाऽतिशायी परमो मन्त्री सम्पद्यते ततो मे राज्यं सुखेनैधते, बुद्धिबलो|पेतो हि राजा प्रायः शेषवलैरल्पबलोऽपि न पराजयस्थानं भवति परांश्च राज्ञो लीलया विजयते, एवं च चिन्तयित्वा || कतिपयदिनानन्तरं रोहकबुद्धिपरीक्षानिमित्तं सामान्यतो ग्रामप्रधानपुरुषानुद्दिश्यैवमादिष्टवान्-यथा युष्मद्रामस्य 8 बहिरतीव महती शिला वर्तते तामनुत्पाट्य राजयोग्यमण्डपाच्छादनं कुरुत, तत एवमादिष्टे सकलोऽपि ग्रामो राजादेशं कर्तुमशक्यं परिभावयन्नाकुलीभूतमानसो बहिः सभायामकत्र मिलितवान् , पृच्छति स्म परस्परं-किमिदानी कर्त्तव्यं?, दुष्टो राजादेशोऽस्माकमापतितो, राजादेशाकरणे च महाननर्थोपनिपातः, एवं च चिन्तया व्याकुलीभू dain Educa t ional For Personal & Private Use Only www.jalnelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy