SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ दृष्टान्ता श्रीमलय दीत्-वत्स ! रोहक किमिदं त्वया चेष्टितं ?, तव पिता मे सम्प्रति दूरं पराङ्मुखीभूतः, रोहक आह-किमिति : औत्पत्तिकी गिरीया नन्दीवृत्तिः तर्हि न सम्यग् मे वर्त्तसे ?, तयोक्तम्-अत ऊर्दू सम्यग् वर्त्तिव्ये, ततो बालक आह-भव्यं, तर्हि मा खेदं कार्षीः बुद्धि तथा करिष्ये यथा मे पिता तथैव त्वयि वर्त्तते इति, ततः सा तत्कालादारभ्य सम्यग्वर्तितुं प्रवृत्ता, रोहकोऽप्य॥१४५॥ है न्यदा निशि निशाकरप्रकाशितायां प्राक्तनकदाशङ्कापनोदाय बालभावं प्रकटयन् निजच्छायामङ्गुल्यग्रेण दर्शयन् पितर-1 मेवाह-भोः पितरेष गोहो याति गोहो यातीति, तत एवमुक्ते स पिता परपुरुषप्रवेशाभिमानतो निष्प्रत्याकारं 8 कृपाणमुद्गीर्य प्राधावत् , रे कथय कुत्र यातीति ?, ततः स रोहको बालको बालक्रीडां प्रकटयन्नमुल्यग्रेण निज-18 च्छायां दर्शयति-पितरेष गोहो यातीति, ततः स पिता ब्रीडित्वा प्रत्यावृत्य चिन्तयति स्मच खचेतसि-प्राक्तनोऽपि २० पुरुषो नूनमेवंविध एवासीदिति धिग्मया बालकवचनादलीकं संभाव्य विप्रियमेतावन्तं कालं कृतमस्यां भार्याया मिति पश्चात्तापाद्गाढतरमस्यामनुरक्तो बभूव, सोऽपि रोहको मया विप्रियं कृतमास्तेऽ(मस्त्य)स्या इति कदाचिदेषा मां ६ विपादिना मारयिष्यतीति विचिन्त्य सदैव पित्रा सह भुङ्क्ते न कदाचिदपि केवलः, अन्यदा पित्रा सहोजयिनी पुरीम-8॥१४५|| गमत् , दृष्टा च तेन त्रिदशपुरीवोजयिनी, सविस्मयचेतसा च सकलाऽपि यथावत्परिभाविता, ततः पित्रैव सह नगर्या | निर्यातुमारेभे, पिता च किमपि मे विस्मतमिति रोहसिप्रानदीतटेऽवस्थाप्य तदानयनाय भयोऽपि नगरी प्राविक्षत, रोहकोऽपि च तत्र सिमाभिधसिन्धुसैकते बालचापलवशात् सप्राकारां परिपूर्णामपि पुरी सिकताभिरालिखत्, Jain Educatiohe For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy