SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ लक्षणम भावा भेयइंदियविभागा। वागक्खरमूयेयरभेया भेओ मइसुयाणं ॥ १॥” यथा च मतिश्रुतयोः कार्यकारणभा- वात् मिथो भेदः तथा सम्यग्दर्शनमिथ्यादर्शनपरिग्रहभेदात् खरूपतोऽपि तयोः प्रत्येकं भेदः, तथा चाह अविसेसिआ मई मइनाणं च मइअन्नाणं च, विसेसिआ सम्मदिहिस्स मई मइनाणं मिच्छदिटिस्स मई मइअन्नाणं, अविसेसिअं सुयं सुयनाणं च सुयअन्नाणं च, विसेसिअं सुयं सम्मदिटिस्स सुयं सुअनाणं, मिच्छद्दिट्ठिस्स सुअं सुयअन्नाणं । (सू. २५) खामिना अविशेषिता-खामिविशेषपरिग्रहमन्तरेण विवक्ष्यमाणा मतिर्मतिज्ञानं मत्यज्ञानं चोच्यते, सामान्येनोभ-15 यत्रापि मतिशब्दप्रवृत्तेः, विशेषिता-खामिना विशेष्यमाणा सम्यग्दृष्टेर्मतिर्मतिज्ञानमुच्यते, तस्या यथावस्थितार्थ-18 ग्राहकत्वात् , मिथ्यादृष्टेर्मतिर्मत्यज्ञानं, तस्य एकान्तावलम्बितया यथावस्थितार्थग्रहणाभावात् , एवं श्रुतसूत्रमपि व्याख्येयं । आह-मिथ्यादृष्टेरपि मतिश्रुते सम्यग्दृष्टेरिव तदावरणक्षयोपशमसमुद्भवे सम्यगदृष्टेरिव च पृथुबुनोदराद्याकारं घटादिकं च संविदाते तत्कथं मिथ्यादृष्टेरज्ञाने ?, उच्यते, सदसद्विवेकपरिज्ञानाभावात् , तथाहि-मिथ्यादृष्टिः सर्वमप्येकान्तपुरस्परं प्रतिपद्यते, न भगवदुक्तस्याद्वादनीत्या, ततो घट एवायमिति यदा ब्रूते तदा तस्मिन् घटे घटपर्यायव्यतिरेकेण शेषान् सत्त्वज्ञेयत्वप्रमेयत्वादीन् सतोऽपि धर्मानपलपति, अन्यथा घट एवायमित्येकान्तेनावधारणानुपपत्तेः, घटः सन्नेवेति च ब्रुवाणः पररूपेण नास्तित्वस्यानभ्युपगमात् पररूपतामसतीमपि तत्र प्रतिपद्यते, For Personal & Private Use Only Jain Education International Lww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy