SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीमलय शेषेन्द्रियोपलब्धेरुत्सर्गेण मतिज्ञानत्वे प्राप्ते सत्यपवादमाह-'मोत्तूणं दवसुयं' मुक्त्वा द्रव्यश्रुष, किमुक्तं भवति?- श्रुतलक्षणम् गिरीया मुक्त्वा पुस्तकपत्रकादिन्यस्ताक्षररूपद्रव्यश्रुतविषयां शब्दार्थपर्यालोचनात्मिकां शेषेन्द्रियोपलब्धिं, तस्याः श्रुतज्ञाननन्दीवृत्तिः ॐरूपत्वात् , यच द्रव्यश्रुतव्यतिरेकेणान्योऽपि शेषेन्द्रियेष्वक्षरलाभः शब्दार्थपर्यालोचनात्मकः सोऽपि श्रुतं. न तु केव॥१४२॥ लोऽक्षरलाभः, केवलो बक्षरलाभो मतावपीहादिरूपायां भवति, न च सा श्रुतज्ञानं । अत्राह-ननु यदि शेषेन्द्रि येष्वक्षरलाभः श्रुतं तर्हि यदधावरणमुक्तं-श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमिति तद्विघटते, शेषेन्द्रियोपलब्धेरपि सम्प्रति I लश्रुतत्वेन प्रतिपन्नत्वात् , नैप दोषः, यतः शेपेन्द्रियाक्षरलाभः स इह गृह्यते यः शब्दार्थपर्यालोचनात्मकः, शब्दावार्थपर्यालोचनानुसारी चाक्षरलाभः श्रोत्रेन्द्रियोपलंब्धिकल्प इति न कश्चिदोषः । इतश्च मतिश्रुतयोर्भेदो-वल्कसमंग मतिज्ञानं, कारणत्वात् , शुम्बसमं श्रुतज्ञानं, तत्कार्यत्वात् , ततो यथा वल्कशुम्बयोर्भेदस्तथा मतिश्रुतयोरपि भेदो-मतिज्ञानमनक्षरं साक्षरं च, तथाहि-अवग्रहज्ञानमनक्षरं, तस्यानिर्देश्यसामान्यमात्रप्रतिभासात्मकतया निर्विक-181 ल्पकत्वाद् , ईहादिज्ञानं साक्षरं, तस्य परामर्शादिरूपतयाऽवश्यं वारुपितत्वात् , श्रुतज्ञानं पुनः साक्षरमेव, अक्षर-18 मन्तरेण शब्दार्थपर्यालोचनस्यानुपपत्तेः । इतश्च मतिश्रुतयोभदो-मूककल्पं मतिज्ञानं, खमात्रप्रत्यायनफलत्वात् , अमू ॥१४२॥ ककल्पं श्रुतज्ञानं, स्वपरप्रत्यायकत्वात् , तथा चामूनेव भेदहेतून् भाष्यकृत् संगृहीतवान्-"लक्खणभेया हेऊफल१ लक्षणभेदात् हेतुफलभावात् भेद इन्द्रियविभागात् । वल्कशुम्बाक्षरानक्षरम्केतरभेदात् भेदो मतिश्रुतयोः ॥१॥ Jain Education Inter n al For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy