SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥१४॥ SAUCASUSUS30434343 श्रोत्रेन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं श्रुतं भविष्यति, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः, आह च भाष्य- मतिश्रुतकृत्-“जह सुहुमं भाविंदियनाणं दबिंदियावरोहेऽवि । तह दवयाभावे भावसुयं पत्थिवाईणं ॥१॥" ततः योर्भदः प्राक्तनमेव श्रुतलक्षणं समीचीनं, नान्यदिति स्थितं । तदेवं लक्षणभेदाभ्रेदमभिधाय सम्प्रति प्रकारान्तरेण भेदमभि- १५ धित्सुराह-'मइपुत्र'मित्यादि, 'पृ पालनपूरणयो' रित्यस्य धातोः पूर्यते प्राप्यते पाल्यते च येन कार्य तत्पूर्व, औणादिको वप्रत्ययः, कारणमित्यर्थः, मतिः पूर्वं यस्य तन्मतिपूर्वं श्रुतं-श्रुतज्ञानं, तथाहि-मत्या पूर्यते प्राप्यते श्रुतं, न खलु मतिपाटवविभवमन्तरेण श्रुतविभवमुत्तरोत्तरमासादयति जन्तुः, तथाऽदर्शनात्, यच यदुत्कर्षापकर्षवशादुत्कर्षापकर्ष-2 भाक् तत्तस्य कारणं, यथा घटस्य मृत्पिण्डः, मत्युत्कर्षापकर्षवशाच श्रुतस्योत्कर्षापकों, ततः कारणं मतिः श्रुतज्ञा-21 नस्य, तथा पाल्यते-अवस्थितिं प्राप्यते मत्या श्रुतं, श्रुतस्य हि दलं मतियथा घटस मृत्, तथाहि-श्रुतेष्वपि बहुषु | २० ग्रन्थेषु यद्विषयं स्मरणमीहापोहादि वा अधिकतरं प्रवर्तते स ग्रन्थः स्फुटतरः प्रतिभाति, न शेषाः, एतच प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धं, ततो यथोत्पन्नोऽपि घटो मृदभावे न भवति तथाखभावायां च मृदि तिष्ठन्यामवतियते इति सा तस्य कारणम् , एवं श्रुतस्यापि मतिः कारणं, ततो युक्तमुक्तं मतिपूर्व श्रुतमिति । मतिपूर्वकता च||॥१४॥ श्रुतस्योपयोगापेक्षया द्रष्टव्या न तु लब्ध्यपेक्षया, लब्धेः समकालतया भवनात्, एतच्च प्रागेवोक्तं, न मतिः श्रुतपू-१२४ १ यथा सूक्ष्मं भावन्द्रिय विज्ञानं द्रव्येन्द्रियावरोधेऽपि । तथा द्रव्यश्रुताभावे भावश्रुतं पृथिव्यादीनाम् ॥१॥ Jain EducatioJIWALonal For Personal & Private Use Only www.ainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy