________________
SARKARARUSSAIRAALAX
तथा सूत्रेऽनेकशोऽभिधानात् , संज्ञा चाभिलाष उच्यते, यत उक्तमावश्यकटीकायाम्-'आहारसंज्ञा-आहारामिलापः
एकेन्द्रिक्षुद्वेदनीयप्रभवः खल्वात्मपरिणामविशेषः' इति, अभिलाषश्च ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः स- येपिश्रुतं मीचीनं भवतीत्येवं शब्दार्थोल्लेखानुविद्धः खपुष्टिनिमित्तभूतप्रतिनियतवस्तुप्रात्यध्यवसायः, स च श्रुतमेव, तस्य शब्दापार्थपर्यालोचनात्मकत्वात् , शब्दार्थपर्यालोचनात्मकत्वं च ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते इत्येवमादीनां
शब्दानामन्तर्जल्पाकाररूपाणामपि विवक्षितार्थवाचकतया प्रवर्त्तमानत्वात् , श्रुतस्य चैवलक्षणत्वात् , उक्तं च| "इन्दियमणोनिमित्तं जं विन्नाणं सुयानुसारेणं । नियअत्थोत्तिसमत्थं तं भावसुयं मई सेसं ॥१॥” 'सुयाणुसारेणं'ति शब्दार्थपर्यालोचनानुसारेण, शब्दार्थपर्यालोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टस्यार्थस्य प्रति-12 पत्तिः, केवलमेकेन्द्रियाणामव्यक्तमेव, किंच-नाप्यनिर्वचनीयं तथारूपक्षयोपशमभावतो वाच्यवाचकभावपुरस्स-1 श्रीकारेण शब्दसंस्पृष्टार्थग्रहणमवसेयम् , अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः, यदप्युच्यते यद्येवंलक्षणं श्रुतं तर्हि य एव
श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते न शेषस्यैकेन्द्रियस्येति, तदप्यसमीक्षितार्थाभिधानं,8|१० सम्यक प्रवचनार्थापरिज्ञानात् , तथाहि-बकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं भावेन्द्रियपञ्चकविज्ञानमभ्युपगम्यते, 'पंचिंदिओऽवि बउलो' इत्यादिभाष्यकारवचनप्रामाण्यात् , तथा भाषा
१ इन्द्रियमनोनिमित्तं यद्विज्ञानं श्रुतानुसारेण । निजकार्योंक्तिसमर्थ तद् भावश्रुतं मतिः शेषम् ॥१॥
dain Education International
For Personal & Private Use Only
www.janelibrary.org