________________
श्रीमलय.
गतयोरपि लक्षणभेदाझेदो, यथैकाकाशस्थयोधर्मास्तिकायाधर्मास्तिकाययोः, तथाहि-धर्माधर्मास्तिकायौ परस्परं ।
एकेन्द्रिगिरीया लोलीभावेनैकस्मिन्नाकाशदेशे व्यवस्थितौ, तथापि यो गतिपरिणामपरिणतयोर्जीवपुद्गलयोर्गत्युपष्टम्भहेतुर्जलमिव म-3 येऽपिश्रुतं नन्दीवृत्तिः
त्स्यस्य स खलु धर्मास्तिकायो यः पुनः स्थितिपरिणामपरिणतयोर्जीवपुद्गलयोरेव स्थित्युपष्टम्भहेतुः क्षितिरिव झपस्य है ॥१४॥ स खलु अधर्मास्तिकाय इति लक्षणभेदाढ़ेदो भवति, एवमाभिनिवोधिकश्रुतयोरपि लक्षणभेदा दो वेदितव्यः,
लक्षणभेदमेव दर्शयति-'अभिनिवुज्झईत्यादि, अभिमुखं-योग्यदेशे व्यवस्थितं नियतमर्थमिन्द्रियमनोद्वारेण बुध्यतेपरिच्छिनत्ति आत्मा येन परिणामविशेषेण स परिणामविशेषो ज्ञानापरपर्याय आभिनिबोधिकं, तथा शृणोति वा-131 च्यवाचकभावपुरस्सरं श्रवणविषयेन शब्देन सह संस्पृष्टमर्थ परिच्छिनत्त्यात्मा येन परिणामविशेषेण स परिणाम-15/२० विशेषः श्रुतं । ननु यद्येवंलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते न || |शेषस्यैकेन्द्रियस्य, तथाहि-यः श्रोत्रेन्द्रियलब्धिमान् भवति स विवक्षितं शब्दं श्रुत्वा तेन शब्देन वाच्यमर्थं प्रति-121
पत्तुमीष्टे न शेषः, शेषस्य तथारूपशक्त्यभावात् , योऽपि च भाषालब्धिमान् भवति सोऽपि द्वीन्द्रियादिः प्रायः ख-IRL. ट्राचेतसि किमपि विकल्प्य तदभिधानानुमानतः शब्दमुद्विरति नान्यथा, ततस्तस्यापि श्रुतं सम्भाव्यते, यस्त्वेकेन्द्रियः ॥१४०॥
स न तावत् श्रोत्रेन्द्रियलब्धिमान् नापि भापालब्धिमान् ततः कथं तस्य श्रुतसम्भवः?, अथ च प्रवचने तस्यापि श्रुतमुपवर्ण्यते, तत्कथं प्राक्तनं श्रुतलक्षणं समीचीनमिति ?, नैष दोषो, यत इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यते
dan Education International
For Personal & Private Use Only
www.jainelibrary.org