SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्ति: ॥१३९॥ ॥ ६० ॥ से तं केवलनाणं, से तं पञ्चक्खनाणं ॥ ( सू० २३ ) इह तीर्थकरः केवलज्ञामेन 'सर्वे वाक्यं सावधारण' मिति न्यायात् केवलज्ञानेनैव न श्रुतज्ञानेन, तस्य क्षायोप शमिकत्वात्, केवलिनश्च क्षायोपशमिकभावातिक्रमात् सर्वक्षये देशश्याभावादिति भावः अर्थान्-धर्मास्तिका - यादीन् अभिलाप्यानभिलाप्यान् 'ज्ञात्वा' विनिश्चित्य ये 'तत्र' तेषामर्थानामभिलाप्यानभिलाप्यानां मध्ये प्रज्ञापनायोग्याः, अभिलाप्या इत्यर्थः, तान् भाषते नेतरान् तानपि प्रज्ञापनायोग्यान् भाषते, न सर्वान् तेषामनन्तत्वेन सर्वेषां भाषितुमशक्यत्वात्, आयुषस्तु परिमितत्वात्, किन्तु ?, कतिपयानेव, अनन्तभागमात्रान्, आह च भाष्यकृत् - “पन्नवणिजा भावा अनंतभागो तु अणभिलप्पाणं । पन्नवणिजाणं पुण अनंतभागो सुयनिबद्धो ॥ १॥" तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, तस्य भाषापर्यात्यादिनामकर्मोदयनिबन्धनत्वात् श्रुतस्य च क्षायोपशमिकत्वात्, स च वागयोगो भवति, न श्रुतं 'शेषम्' अप्रधानं द्रव्यश्रुतमित्यर्थः, श्रोतॄणां भावश्रुतकारणतया द्रव्यश्रुतं व्यवहियते इति भावः अन्ये त्वेवं पठन्ति - " वइजोग सुयं हवइ तेसिं" तस्यायमर्थः तेषां श्रोतॄणां भावश्रुतकारणत्वात् स वागयोगः श्रुतं भवति, श्रुतमिति व्यवहियते इत्यर्थः । 'सेत्त' मित्यादि निगमनं, तदेतत्केवलज्ञानं, तदेतत्प्रत्यक्षं । एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्य स्वरूपमनवगच्छन्नाह शिष्यः - १ प्रज्ञापनीया भावा अनन्तभागस्तु अनभिलाप्यानाम्। प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥ १ ॥ Jain Education International For Personal & Private Use Only देशना वाम्योगः सू. २३ २० ॥१३९॥ २४ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy