SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ नेओ ॥ १॥ तेसिं भावो सत्ता सलक्खणं वा विसेसओ तस्स । नाणं विन्नत्तीए कारणं केवलं नाणं ॥२॥" तच| केवलस्वरूपं ज्ञेयानन्तत्वादनन्तं, तथा शश्वद्भवं शाश्वतं, सदोपयोगवदिति भावार्थः, तथा प्रतिपतनशीलं प्रतिपाति न प्रतिपाति | देशनाया अप्रतिपाति, सदाऽवस्थायीत्यर्थः, ननु यत् शाश्वतं तदप्रतिपायेव ततः किमनेन विशेषणेन ?, तदयुक्तं, सम्यक- | वाग्योगत्वं शब्दार्थापरिज्ञानात् , शाश्वतं हि नाम अनवरतं भवदुच्यते, तच कियत्कालमपि भवति, यावद्भवति तावन्निरन्तरं च गा. ५९-६० भवनात् , ततः सकलकालभावप्रतिपत्त्यर्थमप्रतिपातिविशेषणोपादानं, ततोऽयं तात्पर्यार्थः-अनवरतं-सकलकालं भवतीति, अथवा एकपदव्यभिचारेऽपि विशेषणविशेष्यभावो भवतीति ज्ञापनार्थ विशेषणद्वयोपादानं, तथाहिशाश्वतमप्रतिपात्येव, अप्रतिपाति तु शाश्वतमशाश्वतं च भवति. यथा अप्रतिपात्यवधिज्ञानमिति । तथा एकविधम्एकप्रकार, तदावरणक्षयस्यैकरूपत्वात् , केवलं च तज्ज्ञानं च (केवलज्ञानं)॥ इह तीर्थकृत् समुपजातकेवलालोकस्ती खाभाव्यादुपकायकृतोपकारानपेक्षं सकलसत्त्वानुग्रहाय सवितेव प्रकाशं देशनामातनोति, तत्राव्युत्पन्नविनेयानां केषाञ्चिदेवमाशङ्का भवेद् (यत्) भगवतोऽपि तीर्थकृतस्तावद्रव्यश्रुतं ध्वनिरूपं वर्तते, द्रव्यश्रुतं | च भावश्रुतपूर्वकं, ततो भगवानपि श्रुतज्ञानीति, ततस्तदाशङ्कापनोदार्थमाह केवलनाणेणऽत्थे नाउं जे तत्थ पण्णवणजोगे। ते भासइ तित्थयरो वइजोग सुअं हवइ सेसं १ तेषां भावः सत्ता खलक्षणं वा विशेषतस्तस्य । ज्ञानं विज्ञप्तेः कारणं केवलज्ञानम् ॥१॥ Jain Educ a tional For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy