SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ १२ ॥ " णासिद्धेः, अत्यन्तवैलक्षण्येन साधर्म्ययोगात्, साधर्म्य चैकीकरणनिमित्तम्, अन्यथाऽतिप्रसङ्गात् अपि च- कश्चैता - वेकीकरोतीति वाच्यम्, स एव विकल्प इति चेत्, तद्न, तत्र वाह्यखरूपलक्षणानवभासात्, अन्यथा विकल्पत्वायोगाद, अनवभासितेन चैकीकरणासम्भवाद्, अतिप्रसक्तेः, अथ विकल्पादन्य एव कश्चिद्विकल्प्यमेवार्थे दृश्यमित्यध्यवस्यति, हन्त तर्हि स्वदर्शनपरित्यागप्रसङ्गः, एवमभ्युपगमे सति बलादात्मास्तित्वप्रसक्तेः तथाहि - निर्विकल्पकं न विकल्प्यमर्थ साक्षात्करोति, तदगोचरत्वात्, ततो न तत् दृश्यमर्थं विकल्पेन सहैकी कर्त्तुमलं, न च देशकालखभावव्यवहितार्थविषयेषु शाब्दविकल्पेषु तद्विषये निर्विकल्पकसम्भवः, तत्कथं तत्र तेन दृश्यविकल्पार्थैकीकरणम्, ततो विकल्पादन्यः सर्वत्र दृश्यविकल्पावर्थावे कीकुर्वन् बलादात्मैवोपपद्यते न च सोऽभ्युपगम्यते, तस्माच्छन्दो बाह्यस्यार्थस्य वाचक इत्यकामेनापि प्रतिपत्तव्यम्, इतश्च प्रतिपत्तव्यम्, अन्यथा सङ्केतस्यापि कर्त्तुमशक्यत्वात्, तथाहियेन शब्देन इदं तदित्यादिना सङ्केतो विधेयः तेन किं सङ्केतितेन उतासङ्केतितेन १, न तावत्सङ्केतितेन, अनवस्थाप्रसङ्गात्, तस्यापि हि येन शब्देन सङ्केतः कार्यः तेन किं सङ्केतितेन उतासङ्केतितेनेत्यादि तदेवावर्त्तते, अथासङ्केतितेन सिद्धः तर्हि शब्दार्थयोर्वास्तवः सम्बन्ध इति । तथा 'जगदानन्द:' इह जगच्छन्देन संज्ञिपञ्चेन्द्रियपरिग्रहः तेषामेव भगवद्दर्शन देशनादित आनन्दसम्भवात् ततश्च जगतां - संज्ञिपञ्चेन्द्रियाणाममृतस्यन्दिमूर्त्तिदर्शनमात्रतो निःश्रेयसाभ्युदयसाधकधर्म्मोपदेशद्वारेण चानन्दहेतुत्वादैहिकामुष्मिक प्रमोदकारणत्वाज्जगदानन्दः, अनेन Jain Education International For Personal & Private Use Only शाब्दप्रामाण्यं. १५ २० ॥ १२ ॥ २५ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy