________________
परार्थसम्पदमाह। तथा 'जगन्नाथ' इह जगच्छब्देन सकलचराचरपरिग्रहः,नाथशब्देन च योगक्षेमकृदभिधीयते. 'योगक्षेमकृत् नाथ' इति विद्वत्प्रवादात् , ततश्च जगतः-सकल चराचररूपस्य यथावस्थितखरूपप्ररूपणद्वारेण वितथप्ररूपणापायेभ्यः पालनाच नाथ इव नाथो जगन्नाथः, अनेनापि परार्थसम्पदमाह। तथा 'जगद्वन्धुः' इह जगच्छब्देन सकलप्रा-2 णिगणपरिग्रहः, प्राणिन एवाधिकृत्य बन्धुत्वोपपत्तेः, ततश्च जगतः-सकलप्राणिसमुदायरूपस्याव्यापादनोपदेशप्रणयनेन । सुखस्थापकत्वाद्वन्धुरिव बन्धुर्जगद्वन्धुः, सकलजगदव्यापादनोपदेशप्रणयनं च भगवतः सुप्रतीतम् , तथा चाचारसूत्र- ५ “सव्वे पाणा सव्वे भूया सब्वे जीवा सव्वे सत्ता न हतवा न अन्जावेयवा न परिघेत्तवा न उववेयचा, एस
धम्मे सुद्धे धुवे नीए सासए समेच लोयं खेयन्नेहिं पवेइए" इत्यादि, एतेन संसारमोचकानां व्यापाद्योपकृतये || है दुखितसत्त्वव्यापादनमुपदिशतामकुशलमार्गप्रवृत्तत्वमादितं द्रष्टव्यं, यतस्ते एवमाहुः-यत्परिणामसुन्दरं तदापात-13
कटुकमपि परेषामाधेयं, यथा रोगोपशमनमौषधं, परिणामसुन्दरं च दुःखितसत्त्वानां व्यापादनमिति, तथाहि-कृमिकीटपतङ्गमशकलावकचटककुष्ठिकमहादरिद्रान्धपङ्ग्वादयो दुःखितजन्तवः पापकर्मोदयवशात्संसारसागरमभिप्लवन्ते, ततस्तेऽवश्यं तत्पापक्षपणाय परोपकारकरणकरसिकमानसेन व्यापादनीयाः, तेषां हि व्यापादने महादुःखमतीवो
१ सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वा न हन्तव्या नाज्ञापयितव्या न परिग्रहीतव्या नोपद्रोतव्याः, एष धर्मः शुद्धो ध्रुवो नीतियुक्तः (नित्यः नैयिका) शाश्वतः समेत्य लोकं खेद प्रवेदितः
Jain Education Heatonal
For Personal & Private Use Only
M.jainelibrary.org