________________
यालं, असिद्धता च हेतोराप्तप्रणीतशब्दस्य वस्तुव्यतिरेकेण प्रवृत्त्यसम्भवात्, यत्पुनरिदमुच्यते-शब्दः श्रूयमाणो वभिप्रायविषयं विकल्पप्रतिबिम्बं तत्कार्यतया धूम इव वह्निमनुमापयति, तत्र स एव वक्ता विशिष्टार्थाभिप्रायशब्दयोराश्रयो धर्मी, अभिप्रायविशेषः साध्यः, शब्दः साधनमिति, तदाह-वक्तुरभिप्रेतं तु सूचयेयुरिति स एव तथा प्रतिपद्यमान आश्रयोऽस्त्विति, तत्पापात्पापीयः, तथाप्रतीतेरभावाद्, न खलु कश्चिदिह धूमादिव वहिं तत्का-13 ई यतया शब्दादभिप्रायविषयं विकल्पप्रतिबिम्बमनुमिमीते, अपि तु वाचकत्वेन बाह्यमर्थं प्रत्येति, देशान्तरे कालान्तरे*
च तथाप्रवृत्त्यादिदर्शनात् , न च देशान्तरादावपि तथा प्रतीतावन्यथा परिकल्पनं श्रेयः, अतिप्रसङ्गप्राप्तेः, नामिधूम
जनयति किन्त्वदृष्टः पिशाचादिरित्यस्था अपि कल्पनायाः प्रसङ्गात्, अपिच-अर्थक्रियार्थी प्रेक्षावान् प्रमाणमन्वे-10 Bषयति,न चाभिप्रायविषयं विकल्पप्रतिबिम्ब विवक्षितार्थक्रियासमर्थ,किन्तु बाह्यमेव वस्तु,न च वाच्यम्-अभिप्रायविषयं 3 विकल्पप्रतिबिम्ब ज्ञात्वा वा वस्तुनि प्रवर्तिष्यते तेनायमदोष इति, अन्यस्मिन् ज्ञाते अन्यत्र प्रवत्यनुपपत्तेः, न हि घटे परिच्छिन्ने पटे प्रवृत्तियुक्ता, एतेन विकल्पप्रतिविम्बकं शब्दवाच्यमिति यत्प्रतिपन्नं तदपि प्रतिक्षिप्तमवसेयं, तत्रापि विकल्पप्रतिबिम्बके शब्देन प्रतिपन्ने वस्तुनि प्रवृत्त्यनुपपत्तेः, दृश्यविकल्पावावेकीकृत्य वस्तुनि प्रवर्तते इति चेत् , तथाहि-तदेव विकल्पप्रतिबिम्बकं बहीरूपतयाऽध्यवस्थति ततो बहिः प्रवर्त्तते तेनायमदोष इति, न तयोरेकीकर
M
dain Educa
t ional
For Personal &Private Use Only
Mw.jainelibrary.org