________________
युगपदुपयो
स किंनिबन्धन इति वाच्यं, तदावरणक्षयनिवन्धन इति चेत् , ननु स दर्शनेऽपि तुल्य इति तस्याप्युद्भवप्रसङ्गः, एवं दर्शनपक्षेऽपि वाच्यं, अतः प्रथमसमये स्वावरणक्षयेऽपि अन्यतरस्याभावेऽप्यन्तरस्याप्यभाव एव विपर्ययो वा प्रा
| गनिरासः मोतीति युगपद्विविधोपयोगाभावाभ्युपगमे जिनस्य वादी चोदयतीति । अत्र सिद्धान्तवाद्याह-'भन्नइ न एस नियमो जुगवुप्पन्नेण जुगवमेवेह । होयवं उवयोगेण एत्थ सुण ताव दिटुंतं ॥ १४ ॥' 'भण्यते' अत्रोत्तरं दीयते, न एष। नियमो यदुत शक्त्यपेक्षया युगपदुत्पन्नेनापि ज्ञानेन युगपदेवेह उपयोगेन-उपयोगरूपतयाऽपि भवितव्यमिति । कुत इति चेत्, तथादर्शनात् , आह च-'एत्थ सुण ताव दिद्रुतं' 'अत्र' अस्मिन् विचारप्रक्रमे शृणु तावत् दृष्टान्त । तमेव दर्शयति-'जह जुगवुप्पत्तीएऽवि सुत्ते सम्मत्तमइसुयाईणं । नत्थि जुगवोवओगो सवेसु तहेव केवलिणो
॥ १५॥ यथा सम्यक्त्वमतिश्रुतादीनाम् , आदिशब्दादवधिज्ञानपरिग्रहः, युगपदुत्पत्तावपि 'सूत्रे' आगमेऽभिहिकातायां न सर्वेष्वेव मत्यादिपु युगपदुपयोगो भवति, "जुगवं दो नत्थि उवओगा” इति वचनप्रामाण्यात् , तथैव केव-1 लिनोऽपि शक्त्यपेक्षया युगपत्केवलज्ञानकेवलदर्शनोत्पत्तौ अपि न द्वयोरपि युगपदुपयोगो भवति । अमुमेवार्थ सूत्रेण 8/१० संवादयन्नाह–'भणियं चिय पण्णत्तीपण्णवणाईसु जह जिणो समयं । जं जाणइ नवि पासइ तं अणुरयणप्पभा
ईणं ॥ १६ ॥' भणितं चैतदनन्तरोदितं प्रज्ञप्तौ प्रज्ञापनादिषु-यथा यं समयं केवली जानाति अण्वादिकं रत्नप्रभाकादिकं च न तमेव समयं पश्यतीति, "अणुरयणप्पभाईणं' इत्यत्र प्राकृतत्वाद्वितीयाथै षष्ठी, ततः क्रमेणेव केवलज्ञा-15
Jain E
t ernational
For Personal & Private Use Only
www.jainelibrary.org