________________
1
J
प्रापदन्यथा मत्यादीनामपि परस्परमावरणत्वप्रसङ्गः, योऽपि निष्कारणावरणदोष उद्भावितः सोऽपि जीवस्वाभाव्या| देव तथोपयोगप्रवृत्तेरपास्तो द्रष्टव्यः, अन्यथा मत्यादीनामपि प्रसज्येत तेषामप्युत्कर्षतः षट्षष्टिसागरोपमाणि या वत् क्षयोपशमस्याभिधानात् तावत्कालं चोपयोगाभावादिति । वादिमतमाशङ्क्य दूषयति- 'अह नवि एवं तो सुण जहेव खीणंतरायओ अरिहा । संतेऽवि अंतरायक्खयम्मि पंचप्पयारंमि ॥ ७ ॥ सययं न देइ लहइ व भुंजइ उवभुं जई व सघण्णू । कज्जुंमि देइ लहइ व भुंजइ व तहेव इहइंपि ॥८॥ ' 'अपिः अवधारणे, अथ न एवम् उक्तेन प्रकारेण मन्यसे क्षायोपशमिक क्षायिकयोर्दृष्टान्तदान्तिक भावासम्भवात् असम्भवश्च परस्परवैलक्षण्यात्, ततः शृणु यथा क्षयकार्यमपि ज्ञानं दर्शनं चावश्यमनवरतं न प्रवर्त्तते इति, यथैव खलु क्षीणान्तरायकोऽर्हन् सत्यप्यन्तरायक्षये पञ्चप्रकारे, इहान्तरायकर्मणो दानान्तरायादिभेदेन पञ्चप्रकारत्वात् तत्क्षयोऽपि पञ्चप्रकारः उक्तः, सततं न ददाति लभते वा भुङ्क्ते उपभुङ्क्ते वा सर्वज्ञः, किन्तु कार्ये समुत्पन्ने सति ददाति लभते वा भुङ्क्ते वा उपलक्षणमेतत् उपभुङ्क्ते वा, तथैव 'इहापि केवलज्ञानदर्शनविषये सत्यपि तदावरणक्षये न युगपत्तदुपयोगसम्भवः, तथाजीवस्वाभाव्यादिति । स्यादेतद्, यदि पञ्चविधान्तरायक्षये सत्यपि भगवान् न सततं दानादिक्रियासु प्रवर्त्तते ततः किं तत्क्षयस्य फलमित्यत आह - ' दिंतस्स लभंतस्स व भुंजंतस्स व जिणस्स एस गुणो । खीणंतराययत्ते जं से विग्धं न संभवइ ॥ ९॥' जिनस्य क्षीणसकलघातिकर्मणः क्षीणान्तरायत्वे सत्येष गुणो जायते, यदुत - 'से' तस्य जिनस्य ददतो लभमानस्य वा
Jain Edu ernational
For Personal & Private Use Only
युगपदुपयोगनिरास:
५
१०
१३
www.jainelibrary.org