________________
केवलज्ञानकेवलदर्शने समये-सिद्धान्ते साद्यपर्यवसिते भणिते, ततोब्रुवते केचन सिद्धसेनाचार्यादयः,किमित्याह-'युग- युगपदुपयोपद्' एकस्मिन् समये काले जानाति पश्यति च सर्वज्ञ इति । विपक्षे बाधामाह-"इहराऽऽईनिहणत्तं मिच्छाऽऽवर-1 निरासः णक्खओत्ति व जिणस्स । इयरेयरावरणया अहवा निकारणावरणं ॥ ४ ॥” 'इतरथा' युगपत्केवलज्ञानदर्शनभा-3 वानभ्युपगमे 'आदिनिधनत्वं' सादिसपर्यवसितत्वं केवलज्ञानकेवलदर्शनयोः प्राप्नोति, तथाहि-उत्पत्तिसमयभा-1 विकेवलज्ञानोपयोगानन्तरमेव केवलदर्शनोपयोगसमये केवलज्ञानाभावः पुनस्तदनन्तरं केवलज्ञानोपयोगसमये ५ केवलदर्शनाभाव इति द्वे अपि केवलज्ञानकेवलदर्शने सादिसपर्यवसिते, तथा मिथ्या-अलीकः आवरणक्षयः-11 केवलज्ञानावरणकेवलदर्शनावरणक्षयो जिनस्य प्राप्नोति १, न ह्यपनीतावरणौ द्वौ प्रदीपो क्रमेण प्रकाश्यं प्रकाशयतः, तद्वत् इहापि केवलज्ञानदर्शने युगपन्निर्मूलतोऽपनीतखखावरणे ततः कथं ते क्रमेण खप्रकाश्यं प्रकाशयतः१,8 क्रमेणेति चेदभ्युपगमः तर्हि मिथ्या तदावरणक्षय इति २, तथा इतरेतरावरणता प्राप्नोति, तथाहि-यदि खा-2 वरणे निःशेषतः क्षीणेऽपि अन्यतरभावेऽन्यतरभावो नेष्यते तर्हि ते एव परस्परमावरणे जाते, तथा च सति सिद्धान्तपक्षक्षितिरिति ३॥ अथवा निष्कारणावरणं, यदि हि साकल्येन स्वावरणापगमेऽप्यन्यतरोपयोगकालेऽन्यतरस्य भावो नेष्यते तर्हि तस्यान्यतरस्यावरणमकारणमेव जातं. कारणस्य कर्मलक्षणस्य प्रागेव सर्वथापगमात् , तथा च सति सदेव भावाभावप्रसङ्गः, तथा चोक्तं-"नित्यं सत्त्वमसत्वं वाऽहेतोरन्यानपेक्षणादिति" ४।'तह य असवनुत्तं असबद रिसत्त
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org