________________
श्रीमलय- मनेकधा विप्रतिपत्तिः, सा च चूर्णिणकृता मूलटीकाकृता च दर्शिता ततो वयमपि संक्षेपतो विनेयजनानुग्रहाय तां युगपदुपयोगिरीया प्रदर्शयामः-'केई भणंति जुगवं जाणइ पासइ य केवली नियमा। अन्ने एगंतरियं इच्छंति सुओवएसेणं ॥१॥
गनिरास: नन्दीत्तिः
|| अन्ने न चेव वीसु दंसणमिच्छंति जिणवरिंदस्स । जंचिय केवलनाणं तं चिय से दंसणं विति ॥२॥' व्याख्या॥१३४॥ MI'केचन' सिद्धसेनाचार्यादयो ‘भणंति' ब्रुवते, किमित्याह-'युगपद्' एकस्मिन् काले 'केवली' केवलज्ञानवान् नश
त्वन्यश्छद्मस्थो जानाति पश्यति च 'नियमात्' नियमेन, अन्ये पुनराचार्या जिनभद्रगणिक्षमाश्रमणप्रभृतयः 'इच्छंति' ४ मन्यन्ते, किमिति ?, आह-एकान्तरितं केवली जानाति पश्यति चेति, एकस्मिन् समये जानाति एकस्मिन्समये || पश्यतीत्यर्थः । कथमेतदिच्छन्तीति ?, अत आह-श्रुतोपदेशेन, आगमानुसारेणेत्यर्थः । 'अन्ने' इत्यादि, अन्ये केचि- २० दृद्धाचार्या न चैव ज्ञानाद्दर्शनं विष्वक्-पृथगिच्छन्ति जिनवरेन्द्रस्य, जिनाः-उपशान्तरागादिदोषसमूहाः तेषां वराःप्रधाना निर्मूलत एव क्षीणसकलरागादिदोषोद्भवनिबन्धनमोहनीयकाणः, क्षीणमोहा इत्यर्थः, तेषामिन्द्रो-भगवान् 81 उत्पन्नकेवलज्ञानः तस्य,न त्वन्यस्य, किन्तु यदेव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं क्षीणसकलावरणस्य देशज्ञानाभवात् केवलदर्शनस्याप्यभावात् , तस्यापि वस्त्वेकदेशभूतसामान्यमात्रग्राहितया देशज्ञानकल्पत्वादिति भा-|
॥१३४॥ |वना । तत्र 'यथोद्देशं निर्देश' इति न्यायात् प्रथमं युगपदुपयोगवादिमतं प्रदश्यते-'जं केवलाई साई अपज्जवसियाई दोवि भणियाई। तो बिंति केइ जुगवं जाणइ पासइ य सबन्नू ॥३॥' व्याख्या-'यत्' यस्मात् कारणात् द्वे अपि
dain Education International
For Personal & Private Use Only
www.jainelibrary.org