________________
केवलखरूपं गा.५८
तत्थ दव्वओ णं केवलनाणी सव्वदव्वाइं जाणइ पासइ, खित्तओ णं केवलनाणी सव्वं । खित्तं जाणइ पासइ, कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ । अह सव्वदव्वपरिणामभावविपणत्तिकारणमणंतं । सासयमप्पडिवाई एगविहं केवलं नाणं ॥ ५८ ॥ (सू० २२) 'से किं तं परम्परसिद्धकेवलनाणमित्यादि, न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः, परम्परसिद्धविशेषणं, अप्र-2 थमसमयवर्तिनः सिद्धत्वसमयाद्वितीयसमयवर्तिन इत्यर्थः, ज्यादिषु तु द्वितीयसमयसिद्धादय उच्यन्ते, यद्वा सामान्यतः अप्रथमसमयसिद्धा इत्युक्तं, तत एतदेव विशेषेण व्याचष्टे-द्विसमयसिद्धाः त्रिसमयसिद्धा इत्यादि । 'सेत्त'मि-* त्यादि निगमनं, 'तं समासतो' इत्यादि, तदिदं सामान्येन केवलज्ञानमभिगृह्यते, 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'ण'मिति वाक्यालङ्कारे केवलज्ञानी सर्वद्रव्याणि-धर्मास्तिकायादीनि साक्षाजानाति पश्यति, क्षेत्रतः केवलज्ञानी सर्व क्षेत्रं-लोकालोकभेदभिन्नं जानाति पश्यति, इह यद्यपि सर्वद्रव्यग्रहणेनाकाशास्तिकायोऽपि गृह्यते तथापि तस्य क्षेत्रत्वेन रूढत्वात् भेदेनोपन्यासः, कालतः केवलज्ञानी | सर्व कालम्-अतीतानागतवर्तमानभेदभिन्नं जानाति पश्यति, भावतः केवलज्ञानी सर्वान् जीवाजीवगतान् भावान्गतिकषायागुरुलघुप्रभृतीन जानाति पश्यति ॥ इह केवलज्ञानकेवलदर्शनोपयोगचिन्तायांक्रमोपयोगादिविषया सूरीणा
REASSSSSS
www.jaineibrary.org
dan Edu
a
For Personal & Private Use Only
tional