SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- गिरीया ॥१३२॥ न खलु सकलदेशकालव्यात्या स्त्रीपु रत्नत्रयप्रकर्षासम्भवग्राहकं प्रत्यक्षमनुमानं वा प्रमाणं विजृम्भते, देशकालविप्र-1| त्रिमुक्तिकृष्टतया तत्र प्रत्यक्षस्याप्रवृत्तेः, तदप्रवृत्ती चानुमानस्याप्यसम्भवात् , नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः सिद्धिः कोऽप्यागमो विद्यते. प्रत्युत सम्भवप्रतिपादकः स्थाने स्थानेऽस्ति, यथा इदमेव प्रस्तुतं सूत्र, ततो न तासां रत्नत्रय-18| प्रकर्षासम्भवः, अथ मन्येथाः-खभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन रत्नत्रयप्रकर्षः ततस्तदसम्भवोऽनुमी-|| यते, तदयुक्तं, युक्तिविरोधात्, तथाहि-रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्रातिः, स चायोग्यवस्थाचरमसमये, अयोग्यावस्था चास्मादृशामप्रत्यक्षा, ततः कथं विरोधगतिः ?, न हि अदृष्टेन सह विरोधः प्रतिपतुं शक्यते, 12 मा प्रापत् पुरुषेष्वतिप्रसङ्गः, ननु जगति सर्वोत्कृष्ट पदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते, नान्यथा, एतयोमयोरप्यावयोरागमप्रामाण्यवलतः सिद्धं, सर्वोत्कष्टे च द्वे पदे-सर्वोत्कृष्टं दुःखस्थानं सर्वोत्कृष्टं सुखस्थानं च, तत्र सर्वोत्कृष्ट-10 दुःखस्थानं सप्तमनरकपृथिवी, अतः परं परमदुःखस्थानस्याभावात् , सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसं, ततः परमन्य त्य सुखस्थानस्यासम्भवात् , ततः स्त्रीणां सप्तमनरकपृथिवीगमनमागमे निषिद्धं, निषेधस्य च कारणं तदमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथिवीगमननिषेधादवसीयते-नास्ति स्त्रीणां निर्वाणं, निर्वाणहेतोः18| ॥१३२॥ तथारूपसर्वोत्कृष्टमनोवीर्यपरिणामस्यासम्भवात् , तथा चात्र प्रयोगः-असम्भवनिर्वाणाः स्त्रियः, सप्तमपृथिवीगमनत्वाभावात् , सम्मूछिमादिवत् , तदेतदयुक्तं, यतो यदि नाम स्त्रीणां सप्तमनरकपृथिवीगमनं प्रति सर्वोत्कृष्टमनोवीर्य dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy