SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ परिणत्यभावः तत एतावता कथमवसीयते ? निःश्रेयसमपि प्रति तासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो, न हि यो भूमि- विमक्तिहैकर्षणादिकं कर्म कर्तुं न शक्नोति स शास्त्राण्यप्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यं, प्रत्यक्षविरोधात् , अथ सम्मूछिमा-12 सिद्धिा दिषूभयमपि प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽत्राप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते?,न12 खलु बहिर्व्याप्तिमात्रेण हेतुर्गमको भवति, किन्त्वन्तप्त्या , अन्तर्व्याप्तिश्च प्रतिवन्धवलेन सिध्यति, न चात्र प्रतिबंधो , विद्यते, न खलु सप्तमपृथिवीगमनं निर्वाणगमनस्य कारणं, नाप्येवमेवाविनाभावप्रतिवन्धतः सप्तमपृथिवीगमनाविनाभावि निर्वाणगमनं, चरमशरीरिणां सप्तमपृथिवीगमनमन्तरेणैव निर्वाणगमनभावात् , न च प्रतिवन्धमन्तरेण एकस्याभावेऽन्यस्याभावो, मा प्रापद्यस्य तस्य वा कस्यचिदेकसाभावे सर्वस्याभावप्रसङ्गः, यद्येवं तर्हि कथं सम्मछिमादिषु || निर्वाणगमनाभाव इति ?, उच्यते, तथाभवस्खाभाव्यात् , तथाहि-ते सम्मूर्छिमादयो भवखभावत एव न सम्य* गदर्शनादिकं यथावत् प्रतिपत्तुं शक्नुवन्ति, ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्रागुक्तप्रकारेण यथावत्सम्यग्दर्शनादिरत्नत्रयसम्पद्योग्याः, ततस्तासां न निर्वाणाभावः। अपिच-भुजपरिसप्पो द्वितीयामेव पृथिवीं यावद्गच्छन्ति. न परतः, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात् , तृतीयां यावत् पक्षिणः, चतुर्थी चतुष्पदाः, पञ्चमीमरगाः अथ च सर्वेऽप्यूद्धमुत्कर्षतः सहस्रारं यावदच्छन्ति. तमाधोगतिविषये मनोवीयपरिणतिवेषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यं, तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं सममिति कृतं प्रसङ्गेन, तथा पुँलि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy