SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सम्भवः १, स्यादेतद्-अस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं च न पुनश्चारित्रं, संयमाभावात्, तथाहि-स्त्रीणामवश्यं त्रिमुक्तिवस्त्रपरिभोगेन भवितव्यम् ; अन्यथा विवृताङ्गयस्ताः तिर्यस्त्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गोप- सिद्धिः जायते, ततोऽवश्यं ताभिर्वस्त्रं परिभोक्तव्यं, वस्त्रपरिभोगे च सपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति, तदसमी-15) है।चीनं, सम्यक् सिद्धान्तापरिज्ञानात् , परिग्रहो हि परमार्थतो मूर्छाऽभिधीयते, 'मुच्छा परिग्गहो वुत्तो' इति वचनप्रा-18 माण्यात् , तथाहि-मूर्छारहितो भरतचक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते, अन्यथा है 18| केवलोत्पादासम्भवात् , अपिच-यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमानं परिग्रहो भवेत् ततो जिनकल्पं प्रति-13 पन्नस्य कस्यचित् साधोस्तुषारकणानुषक्ते प्रपतति शीते केनाप्यविषयोपनिपातमद्य शीतमिति विभाव्य धार्थिना शि-13 रसि वस्त्रे परिक्षिप्ते तस्य सपरिग्रहता भवेत् , न चैतदिष्टं, तस्मान्न संसर्गमात्रं परिग्रहः, किन्तु मूर्छा, सा च स्त्रीणां वस्त्रादिषु न विद्यते, धर्मोपकरणमात्रतया तस्योपादानात्, न खलु ता वस्त्रमन्तरेणात्मानं रक्षितुमीशते, नापि शीत कालादिष्वर्वागदशायां खाध्यायादिकं कर्तुं, ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुञ्जाना न ताः परि-18 है ग्रहवत्यः, अथोच्येत-सम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं, परं न तत् सम्भवमात्रेण मुक्तिपदप्रापर्क भवति, किन्तु प्रकर्षप्राप्तं, अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तेः, सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी, ततो न निर्वाणमिति, तदप्ययुक्तम् , स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकस्य प्रमाणस्याभावात्, an Ed o na For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy