SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीमलय उत्कर्षतः किञ्चिन्न्यूनानि दश पूर्वाणि, तथा लिङ्गं तस्मै देवता प्रयच्छति, लिङ्गरहितो वा कदाचिद्भवति, तथा चाह स्त्रीमुक्तिगिरीयः नन्दीवृत्ति है चूर्णिणकृत्-“पत्तेयबुद्धाणं पुवाधीतं सुयं नियमा भवइ, जहन्नेणं एक्कारस अंगा, उक्कोसेणं भिन्नदसपुबी, लिंगं च से 2 सिद्धि देवया पयच्छइ लिंगवजिओ वा भवति, जतो भणियं-'रूप्पं पत्तेयबुद्धा' इति” तथा बुद्धाः-आचार्यास्तै|धिताः | १५ ॥१३॥ सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धा, एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः, स्त्रिया लिङ्गं स्त्रीलिङ्गं, स्त्रीत्वस्योपलक्षणमित्यर्थः, तच त्रिधा, तद्यथा-वेदः शरीरनिवृत्तिर्नेपथ्यं च, तत्रेह शरीरनिवृत्त्या प्रयोजनं, न वेदनेपथ्याभ्यां, वेदे सति सिद्धत्वाभात्, नेपथ्यस्य चाप्रमाणत्वात् , आह च चूर्णिणकृत्-"इथिए लिंग इथिलिंगं, इत्थिए उवलक्खणंति वृत्तं भवति, तं च तिविहं-वेयो सरीरनिवत्ती नेवत्थं च, इह सरीरनिवत्तीए अहिगारो, न वेयनेवत्थेहि"ति । तस्मिन् स्त्रीलिङ्गे वर्तमानास्सन्तो ये सिद्धाः ते स्त्रीलिङ्गसिद्धाः, एतेन यदाहुराशाम्बराः-न स्त्रीणां निर्वाणमिति,8/२० तदपास्तं द्रष्टव्यम् , स्वीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात् , तत्प्रतिषेधस्य च युक्त्यनुपपन्नत्वात् , तथाहि-मुक्तिपथो ज्ञानदर्शनचारित्राणि, “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः” (तत्त्वा० अ० १ ० १) इति वचनात् , सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामपि अविकलानि, तथाहि-दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः जानते च षडावश्यककालिकोकालिकादिभेदभिन्नं श्रुतं परिपालयन्ति च सप्तदशविधमकलई संयम ॥१३॥ धारयन्ति च देवासुराणामपि दुद्धरं ब्रह्मचर्य तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव तासां न मोक्ष- २५ -SGRECRACREGARLICES For Personal & Private Use Only Jain EducatioNDIMional Grainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy