________________
और
वुद्धा इति व्युत्पत्तेः, तथा च श्रूयते-बाह्यवृषभादिप्रत्ययसापेक्षा करकण्डादीनां बोधिः, बोधिप्रत्ययमपेक्ष्य च.
स्वयंप्रत्येक बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छवासिन इव संहताः, आह च चूणिकृत्-"पत्तेयं-बाह्यं वृषभादि-14
बुद्धाः कारणमभिसमीक्ष्य बुद्धाः प्रत्येकवुद्धाः वहिःप्रत्ययप्रतिबुद्धानां च पत्तेयं नियमा विहारो जम्हा तम्हा य ते पत्तेयबुद्धा" इति, तथा खयम्बुद्धानामुपधि दशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा-जघन्यत उत्कर्षतश्च, तत्र जघन्यतो द्विविधः उत्कर्षतो नवविधः प्रावरणवर्जः, आह च चूर्णिणकृत्-“पत्तेयबुद्धाणं जहन्नेणं दुविहो उक्कोसेण नवविहो नियमा पाउरणवज्जो भवइ ।" तथा खयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि भवति ततो लिङ्ग देवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते, अय पूर्वाधीतं श्रुतं न भवति तर्हि नियमाद्गुरुसंनिधौ गत्वा लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुञ्चति, उक्तं च चूणिकृता-(ग्रन्थाग्रं ४०००) "पुवाधीत से सुयं हवइ वा 8 न वा, जह से नत्थि तो लिंग नियमा गुरुसन्निहे पडिवजइ, गच्छे य विहरइत्ति, अहवा पुवाधीतसुयसंभवो अस्थि तो से लिंग देवया पयच्छइ गुरुसन्निधे वा पडिवजइ, जइ य एगविहारविहरणजोगो इच्छा च से तो एको चेव विहरइ, अन्नहा गच्छे विहरइ"त्ति । प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तच जघन्यत एकादशाङ्गानि
१ प्रत्येक नियमाद्विहारो यस्मात् तस्साच ते प्रत्येकबुद्धाः । २ प्रत्येकबुद्धानां जघन्येन द्विविध उत्कृष्टेन नवविधः प्रावरणव नियमात् भवति । ३ संस्कृतसमं ।
Jain E
t
ernational
For Personal & Private Use Only
I
www.jainelibrary.org