SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ |ष्ट समयसिद्धाः ततः सप्तसमयसिद्धाः सङ्ख्येयगुणाः तेभ्यः षट्समयसिद्धाः सङ्ख्येयगुणा एवं समयसमयहान्या तावद्वाच्यं । यावद् द्विसमयसिद्धाः सङ्ख्येयगुणाः, उक्तं च - " अट्ठसमयंमि थोवा संखेजगुणा उ सत्तसमया उ । एवं पडिहायंते जाव पुणो दोन्नि समया उ ॥ १ ॥" अत्र 'अट्ठसमयंमी 'त्यादी द्विगुसमाहारत्वादेकवचनं, गणनाद्वारे - सर्वस्तोका अष्टशत सिद्धाः ततः सप्ताधिकशतसिद्धा अनन्तगुणाः तेभ्योऽपि षडधिकशतसिद्धाः अनन्तगुणाः तेभ्यः पञ्चाधिकशतसिद्धा अनन्तगुणा एवमेकैकहान्या अनन्तगुणाः तावद्वाच्या यावदेकपञ्चाशत् सिद्धेभ्यः पञ्चाशत्सिद्धा अनन्तगुणाः, ततः तेभ्य एकोनपञ्चाशत्सिद्धा असङ्ख्येयगुणाः तेभ्योऽप्यष्टचत्वारिंशत् सिद्धा असङ्ख्येयगुणाः, एवमेकैकपरिहान्या तावद्वाच्यं यावत्षड्विंशतिसिद्धेभ्यः पञ्चविंशतिसिद्धा असङ्ख्येयगुणाः, ततः तेभ्यश्चतुर्विंशतिसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि त्रयोविंशतिसिद्धाः सङ्ख्येयगुणाः एवमेकै कहान्या सङ्ख्येयगुणाः तावद्वाच्या यावद्विसिद्धेभ्य एकैकसिद्धाः सङ्ख्येयगुणाः, उक्तं च – “अहंसयसिद्ध थोवा सत्तहियसया अनंतगुणिया य । एवं परिहार्यते सयगाओ जाव पन्नासं ॥ १ ॥ ततो पण्णासाओ असंखगुणिया उ जाव पणवीसं । पणवीसा आरंभा संखगुणा होंति एगं जा ॥ २॥ " सम्प्रति अस्मिन्नेवाल्पबहुत्वद्वारे यो विशेषः सिद्धप्राभृते दर्शितः स विनेयजनानुग्रहाय दर्श्यते तत्र सर्वस्तोका अधो १ अष्टसमये स्तोकाः संख्येयगुणास्तु सप्तसामयिकास्तु एवं परिहीयमाणे यावत् पुनर्द्विसामयिकास्तु ॥ १ ॥ २ अष्टशतसिद्धाः स्तोकाः सप्ताधिकशतं अन न्तगुणाच । एवं परिहीयमाणे शताद्यावत् पञ्चाशत् ॥ १ ॥ ततः पश्चाशतः असंख्यगुणास्तु यावत्पञ्चविंशतिः । पञ्चविंशतेः आरभ्य संख्यगुणाः भवन्ति एकं यावत् ॥ २ ॥ Jain Educational For Personal & Private Use Only सिद्धानाम ल्पबहुत्वं सू. ३० ५ १० ११ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy