________________
लोके पाण्डुकवनादौ अधोलोके अधोलौकिकेषु ग्रामेषु, तिर्यग्लोके मनुष्यक्षेत्रे, तत्रापि निर्व्याघातेन पञ्चदशसु कसर्मभूमिषु, व्याघातेन समुद्रनदीवर्षधर पर्वतादावपि, व्याघातो नाम संहरणं, उक्तं च - "दीवस मुद्दे डाइज एसु वाघाय | खेत्तओ सिद्धा । निवाघाएण पुणो पनरससुं कम्मभूमीसुं ॥ १ ॥ " तीर्थकृतः पुनरधोलोके तिर्यग्लोके वा, तत्राधोलोकेऽधोलौकिकेषु ग्रामेषु तिर्यग्लोके पञ्चदशसु कर्मभूमिषु, न शेषेषु स्थानेषु, शेषेषु हि स्थानेषु संहरणतः संम्भवन्ति, न च भगवतां संहरणसम्भवः १ । तथा काले-कालद्वारेऽवसर्पिण्यां जन्म चरमशरीरिणां नियमतः तृतीयचतुर्थारकयोः, सिद्धिगमनं तु केषाञ्चित् पञ्चमेऽप्यरके यथा जम्बूखामिनः, उत्सर्पिण्यां जन्म चरमशरीरिणां दुष्पमादिषु द्वितीयतृतीयचतुर्थारकेषु, सिद्धिगमनं तु तृतीयचतुर्थयोरेव, उक्तं च - "दोवि समासु जाया सिज्झतोसप्पिणीऍ कालतिगे । ती य जाया उस्सप्पिणीऍ सिज्यंति कालदुगे ॥ १ ॥ " महाविदेहेषु पुनः कालः सर्वदैव सुषमदुष्षमा प्रतिरूपः, ततस्तद्वक्तव्यताभणनेनैव तत्र वक्तव्यता भणिता द्रष्टव्या, संहरणमधिकृत्य पुनरुत्सर्पिण्यामवसप्पिण्यां च षट्स्वप्यरकेषु सिध्यन्तो द्रष्टव्याः, तीर्थकृतां पुनरवसर्पिण्यामुत्सर्पिण्यां च जन्म सिद्धिगमनं च सुषमदुष्पमादुष्पम सुपमारूपयोरेवारकयोर्वेदितव्यं न शेषेश्वरकेषु तथाहि - भगवान् ऋषभखामी सुषमदुष्पमारकप -
१ द्वीपसमुद्रेषु सिद्धा अर्धतृतीयेषु व्याघाते क्षेत्रतः । निर्व्याघातेन पुनः पञ्चदशत्रु कर्मभूमिषु ॥ १ ॥ २ द्वयोरपि समयोजताः सिध्यन्त्युत्सर्पिण्यां कालत्रिके । तिसृषु च जाता अवसर्पिण्यां सिध्यन्ति कालद्विके ॥ २ ॥
Jain Education International
For Personal & Private Use Only
सिद्धकेवलम्
सू. २०
५
www.jainelibrary.org