SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ गिरीया सिद्धः केवलम् श्रीमलय- ___ अथ किं तत्सिद्धकेवलज्ञानं?, सिद्धकेवलज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा-अनन्तरसिद्धकेवलज्ञानं च परम्परसिद्ध-18 केवलज्ञानं, च तत्र न विद्यते अन्तरं-समयेन व्यवधानं यस्य सोऽनन्तरः स चासो सिद्धश्वानन्तरसिद्धः, सिद्धत्वनन्दीवृत्तिः प्रथमसमये वर्तमान इत्यर्थः, तस्य केवलज्ञानमनन्तरसिद्ध केवलज्ञानं, चशब्दः खगतानेकभेदसूचकः, तथा विवक्षिते । सू. २० ॥११॥ प्रथमसमये यः सिद्धः तस्य यो द्वितीयसमयसिद्धः स परः तस्यापि यः तृतीयसमयसिद्धः स परः एवमन्येऽपि वाच्याः परे च परे चेति वीप्सायां पृषोदरादय इति परम्परशब्दनिष्पत्तिः परम्परे च ते सिद्धाश्च परम्परसिद्धाः, विवक्षितसिद्धत्वप्रथमसमयात्प्राक् द्वितीयादिषु समयेष्वनन्तां अतीताद्धां यावद्वर्त्तमाना इत्यर्थः, तेषां केवलज्ञान परम्परसिद्धकेवलज्ञानम् , अत्रापि चशब्दः स्वगतानेकभेदसूचकः । इहानन्तरसिद्धाः सत्पद (ग्रन्थानम् ३५००)प्ररूपणा १ द्रव्यप्रमाण २ क्षेत्र ३ स्पर्शना४ काला ५ ऽन्तर ६ भावा ७ ल्पबहुत्व ८ रूपैरष्टभिरनुयोगद्वारैः पर म्परसिद्धाः सत्पदप्ररूपणाद्रव्यप्रमाणक्षेत्रस्पर्शनाकालान्तरभावाल्पबहुत्वसन्निकर्षरूपैर्नवभिरनुयोगद्वारैः क्षेत्रादिषु पञ्चहैदशसु द्वारेषु सिद्धप्राभृते चिन्तिताः ततस्तदनुसारेण वयमपि विनेयजनानुग्रहार्थं लेशतश्चिन्तयामः । क्षेत्रादीनि च पञ्चदश द्वाराण्यमूनि-"खेत्ते १काले २ गइ ३ वेय ४ तित्थ ५ लिंगे ६ चरित्त ७ बुद्धे ८ य । नाणा ९ गाहु- ॥११॥ ४१० कस्से ११ अंतर १२ मणुसमय १३ गणण १४ अप्पबहू १५ ॥१॥” तत्र प्रथमत एषु द्वारेषु सत्पदप्ररूपणया अन-18|२५ न्तरसिद्धाश्चिन्त्यन्ते, क्षेत्रद्वारे त्रिविधेऽपि लोके सिद्धाः प्राप्यन्ते, तद्यथा-ऊर्द्धलोके अधोलोके तिर्यग्लोके च, तत्रो- २६ RECERSEASESSAGE dain Education International For Personal & Private Use Only S anelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy