SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ न योगी अयोगी अयोगी चासौ भवस्थश्च अयोगिभवस्थः, शैलेश्यवस्थामुपागत इत्यर्थः, तस्य केवलज्ञानमयोगिभव - स्थकेवलज्ञानं ॥ अथ किं तत् सयोगिभवस्थ केवलज्ञानं १, सयोगिभवस्थ केवलज्ञानं द्विविधं प्रज्ञतं, तद्यथा - प्रथमस मयसयोगिभवस्थ केवलज्ञानम् अप्रथमसमयसयोगिभवस्थकेवलज्ञानं च तत्रेह प्रथमसमयः केवलज्ञानोत्पत्तिसमयः, अप्रथमसमयः केवलोत्पत्तिसमयादूर्द्ध द्वितीयादिकः सर्वोऽपि समयो यावत्सयोगित्वचरमसमयः । अथवेति प्रकारान्तरे, एष एवार्थः समयविकल्पनेनान्यथा प्रतिपाद्यते इत्यर्थः, 'चरमसमये' त्यादि, तत्र चरमसमयः - सयोग्यवस्था - न्तिमसमयः, न चरमसमयः अचरमसमयः - सयोग्यवस्था चरमसमयादर्वाक्तनः सर्वोऽप्या केवलप्राप्तेः । 'से त्त' मित्यादि निगमनं सुगमं, अथ किं तद् अयोगिभवस्थ केवलज्ञानं ?, अयोगिभवस्थ केवलज्ञानं द्विविधं प्रज्ञतं, तद्यथा- प्रथमसमयायो - गिभवस्थ केवलज्ञानं अप्रथमसमयायोगिभवस्थ केवलज्ञानं च, अत्र प्रथमसमयोऽयोगित्वोत्पत्तिसमयो वेदितव्यः, शैलेश्यवस्थाप्रतिपत्तिसमय इत्यर्थः, प्रथमसमयादन्यः सर्वोऽप्यप्रथमसमयो यावच्चै लेश्यवस्थाचरमसमयः । अथवेति प्रकान्तरे 'चरमसमये 'त्यादि, इह चरमसमयः शैलेश्यवस्थान्तिमसमयः, चरमसमयादन्यः सर्वोऽप्यचरमसमयो यावच्छैलेश्यवस्था प्रथमसमयः, 'सेत्तं अयोगिभवत्थ केवलनाणं' तदेतदयोगिभवस्थ केवलज्ञानम् । से किं तं सिद्ध केवलनाणं ?, सिद्ध केवलनाणं दुविहं पण्णत्तं, तंजहा अणंतरसिद्ध केवलनाणं च परंपरसिद्ध केवलनाणं च । ( सू०२० ) Jain Educan national For Personal & Private Use Only १० १३ •www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy