SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥११२ ॥ मंते जोगे अ आगमे । अत्थजत्ताअभिप्पाए, तवे कम्मक्खए इअ ॥ १ ॥" अत्र कर्म्मक्षयसिद्धेनाधिकारोऽन्यस्य केवलज्ञानासम्भवाद्, अथवा सितं वद्धं ध्मातं- भस्मीकृतमष्टप्रकारं कर्म्म येन स सिद्धः पृषोदरादय इति रूपसिद्धिः, सकलकर्म्मविनिर्मुक्तो मुक्तावस्थामुपागत इत्यर्थः, तस्य केवलज्ञानं सिद्धकेवलज्ञानं, अत्रापि चशब्दः खगतानेकभेदसूचकः । अथ किं तद्भवस्थकेवलज्ञानं ?, भवस्थ केवलज्ञानं द्विविधं प्रज्ञतम्, तद्यथा - सयोगिभवस्थ केवलज्ञानं च अयोगिभवस्थ केवलज्ञानं च तत्र योजनं योगो - व्यापारः, उक्तं च- 'कायवाङ्मनः कर्म योगः ( तत्त्वा० अ० ६ सू० १ ), इह औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, औदारिकवैक्रियाहारकव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, उक्तं च- "अहंवा तणुजोगाहियवयदव समूहजीववावारो । सो वय| जोगो भन्नइ वाया निसिरिजए तेणं ॥ १ ॥ " तथा औदारिकवैक्रियाहारकशरीरव्यापाराहतमनोद्रव्यसाचिव्याजीवव्यापारो मनोयोगः, उक्तं च-- "तर्ह तणुवावाराहियमणदवसमूहजीववावारो । सो मणजोगो भण्णइ मन्नइ नेयं जओ तेणं ॥ १ ॥ ततः सह योगेन वर्त्तन्ते ये ते सयोगाः [योगाः ] - मनोवाक्कायाः ते यथासम्भवमस्य विद्यन्ते इति सयोगी, सयोगी चासो भवस्थश्व सयोगिभवस्थस्तस्य केवलज्ञानं सयोगिभवस्थ केवलज्ञानं । तथा योगा अस्य विद्यन्ते इति योगी १ अथवा तनुयोगाहृतवागूद्रव्यसमूहजीवव्यापारः । स वाग्योगो भण्यते वागू निस्सृज्यते तेन ॥ १ ॥ योगो भण्यते मनुते ज्ञेयं यतस्तेन ॥ १ ॥ Jain Education International For Personal & Private Use Only २ तथा तनुयोगाहृतमनोद्रव्य समूह जीवव्यापारः । स मनो सयोग्ययोगकेवलम् सू. १९ २० ॥११२॥ २३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy