________________
श्रीमलयगिरीया नन्दीवृत्तिः
शाब्दप्रामाण्य,
१५
॥९॥
पशमानां शब्दादाच केवलादप्यवैपरीयेन वाच्यवाचकभावलक्षणः सम्बन्धोऽवगमपथमृच्छति, तथाहि-सर्वे एव सर्ववेदिनः सुमेरुजम्बूद्वीपादीनानगृहीतसङ्केता अपि तत्तच्छब्दवाच्यानेव प्रतिपद्यन्ते तैरेव तथाप्ररूपणात्, कल्पान्तरवर्ति-14
भिरन्येरेवं प्ररूपिता इति तैरपि तथा प्ररूपिता इति चेत्, ननु तेषामपि कल्पान्तरवर्त्तिनां तथाप्ररूपणे को हेतुरिति । ६ वाच्यम्, तदन्यैरेवं प्ररूपणादिति चेत् अत्रापि स एव प्रसङ्गः, समाधिरपि स एवेति चेत्, ननु तर्हि सिद्धः सुमेर्वाद्यर्थानां I
तदभिधायकानां च वास्तवः सम्बन्धः, सर्वकल्पवर्त्तिभिरपि सर्ववेदिभिस्तेषां सुमेादिशब्दवाच्यतया प्ररूपणात्, अना-11 |दित्वात्संसारस्य कदाचिकैश्चिदन्यथापि सा प्ररूपणा कृता भविष्यतीति चेत्, न, अतीन्द्रियत्वेनात्र प्रमाणाभावात्, सर्वैरपि तथैव सा प्ररूपणा कृतेत्यत्रापि न प्रमाणमिति चेत् , न, अत्र प्रमाणोपपत्तेः, तथाहि-शाक्यमुनिना सम्प्रति सुमेवादिकोऽर्थः सुमेर्वादिशब्देन प्ररूपितः, स च सुमेर्वादौ सुमेर्वादिशब्दप्रयोगः सङ्केतद्वारेणाप्यतत्खभावतायां तयोर्नोपपद्यते, तत्स्वभावत्वाभ्युपगमे च सिद्धं नः समीहितम्,अनादावपि काले तयोः तत्वभावत्वात् ,तत्समानपरिणामस्य प्रवाहतो 8 नित्यत्वात् तत्र सम्बन्धाभ्युपगमाद्, इत्थं चैतदङ्गीकर्तव्यमन्यथाऽनादित्वात्संसारस कदाचिदन्यतोऽपि धूमादेर्भावो है। भविष्यतीत्येवं व्यभिचारशङ्का धूमधूमध्वजादिषु प्रसरन्ती दुर्निवारेसलं दुर्मतिविस्पन्दितेषु प्रयासेन, ननु यदि पारमार्थिकसम्बन्धनिबद्धखरूपत्वादिमे शब्दाः तात्त्विकाभिधानप्रभविष्णवः तर्हि दर्शनान्तरनिवेशिपुरुषपरिकल्पितेषु । वाच्येष्वेतेषां प्रवृतिर्नोपपद्येत, परस्परविरुद्धत्वेन तेषामर्थानां खरूपतोऽभावात्, यदपि च विनष्टमनुत्पन्नं वा
॥९॥
dain Education Theraronal
For Personal & Private Use Only
awarjainelibrary.org