SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ तदपि खरूपेण न समस्तीति तत्रापि वाचो न प्रवर्तेरन्, अपिच-यदि वाचां सद्भूतार्थमन्तरेण न प्रवृत्तिः तर्हि न कस्याश्चिदपि वाचोऽलीकता भवेत्, न चैतत् दृश्यते, तस्मात्सर्वमपि पूर्वोक्तं मिथ्या, तदप्ययुक्तम्, इह द्विधा शब्दाः-मृषाभाषावर्गणोपादानाः सत्यभाषावर्गणोपादानाच, तत्र ये मृषाभाषावर्गणोपादानास्ते तु तीर्थान्तरीयप-13 रिकल्पिताः कुशास्त्रसम्पर्कवशसमुत्थवासनासम्पादितसत्ताकाः प्रधानरूपं जगत् ईश्वरकृतं विश्वम् इत्येवमाकाराः तेऽन-13 र्थका एवाभ्युपगम्यन्ते, ते हि वन्ध्याऽवला इव तदर्थप्राप्त्यादिप्रसवविकलाः, केवलं तथाषिधसंवेदनमोगफला इति 1५ न तैर्व्यभिचारः, अथ तेऽपि सत्याभिमतशब्दा इति प्रतिभासन्ते तत्कथमयं सत्यासत्यविवेको निर्धारणीयः १, ननु । प्रत्यक्षाभासमपि प्रत्यक्षमिवाभासते ततः तत्रापि कथं सत्यासत्यप्रत्यक्षविवेकनिर्धारणम् ?, खरूपविषयपर्यालोचनये-19 ति चेत् , तथाहि-अभ्यासदशामापन्नाः स्वरूपदर्शनमात्रादेव प्रत्यक्षस्य सत्यासत्यत्वमवधारयन्ति, यथा मणिपरीक्षका मणः, अनभ्यासदशामापन्नास्तु विषयपर्यालोचनया, यथा-किमयं विषयः सत्य उताहो नेति, तत्रार्थक्रियासंवाददर्शनतः तद्गतखभावलिङ्गदर्शनतो वा सत्यत्वमवगच्छन्ति अन्यथा त्वसत्यत्वमिति,तदेतत्खरूपविषयपर्यालोचनया सत्यासत्यत्वविवेकनिर्धारणमिहापि समानं, तथाहि-दृश्यन्त एव केचित् प्रज्ञातिशयसमन्विताः शब्दश्रवणमात्रादेव पुरुषाणां मिथ्याभाषित्वममिथ्याभाषित्वं वा सम्यगवधारयन्तः, विषयसत्यासत्यत्वपर्यालोचनायां तु किमेष वक्ता यथावदाप्त dain Educ a tional For Personal & Private Use Only C w .jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy