________________
विकल्पितस्य, न च विकल्पितमुभयरूपं वस्त्वस्ति यत्प्राप्यं सद्विषयः स्यात्, प्रवर्त्तमानस तु पुरुषस्य तस्य तस्यार्थस्य ।
पृथिव्याममजनादवश्यमन्यद् ज्ञानान्तरं प्राप्तिनिमित्तमुपजायते यतः किञ्चिदवाप्यत इति शाब्दज्ञानस्य विषयवत्त्वा18| भावः, तदसत् , विषयवत्त्वाभावासिद्धेः, परोक्षस्य तद्विषयत्वाभ्युपगमात् , यत्पुनरुक्तं-'न शब्दस्यार्थेन सह निश्चितान्व
यव्यतिरेकता. प्रतिबन्धाभावादिति,' तदसमीचीनं, वाच्यवाचकभावलक्षणेन प्रतिबन्धान्तरेण नान्तरीयकतानिश्चयात शब्दो हि बाद्यवस्तुवाचकखभावतया तन्नान्तरीयकः, ततस्तन्नान्तरीयकतायां निश्चितायां शब्दाद निश्चितस्यैवार्थस्य प्रतिपत्ति विकल्पितरूपस्य, निश्चितं च प्रापयत् विषयवदेव शाब्दं ज्ञानमिति । स्यादेतद्-यदि वास्तवसंबन्धपरिकरितमूर्तयः शब्दाः तर्हि समाश्रयतु निरर्थकतामिदानी सङ्केतः, स खलु संवन्धो यतोऽर्थप्रतीतिः,स चेद् वास्तवो निरर्थकः। सङ्केतः, तत एवार्थप्रतीतिसिद्धेः, तदेतदत्यन्तप्रमाणमार्गानभिज्ञत्वसूचकं, यतो न विद्यमान इत्येव सम्बन्धोऽर्थप्रतीतिनिबन्धनं. किन्तु खात्मज्ञानसहकारी, यथा प्रदीपः, तथाहि-प्रदीपो रूपप्रकाशनखभावोऽपि यदि खात्मज्ञानसहकारिकृतसाहायकः ततो रूपं प्रकाशयति, नान्यथा, ज्ञापकत्वात् , न खलु धूमादिकमपि लिङ्गं वस्तुवृत्त्या वयादि-181 प्रतिबद्धमपि सत्तामात्रेण वह्नयादेर्गमकमुपजायते, यदुक्तमन्यैरपि-"ज्ञापकत्वाद्धि सम्बन्धः, खात्मज्ञानमपेक्षते ।। तेनासी विद्यमानोऽपि, नागृहीतः प्रकाशकः ॥१॥" सम्बत्वस्य च परिज्ञानं तदावरणकर्मक्षयक्षयोपशमाभ्यां. तौ च सङ्केततपश्चरणभावनाद्यनेकसाधनसाध्यौ, ततः तपश्चरणभावनासङ्केतादिभ्यः समुत्पन्नतदावरणकर्मक्षयक्षयो-४१३
OSASUSASISARUSTUS
.
.
Jain Edu
Holimational
For Personal & Private Use Only
ww.jainelibrary.org