________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ८ ॥
वन्न भवति न तत्प्रमाणं, यथा गगनेन्दीवरज्ञानं, न भवति च विषयवत् शाब्दं ज्ञानमिति, न चायमसिद्धो हेतुः, यतो | द्विविधो विषयः - प्रत्यक्षः परोक्षश्च तत्र न प्रत्यक्षः शाब्दज्ञानस्य विषयो, यस्य हि ज्ञानस्य प्रतिभासेन स्फुटाभनीलाद्याकाररूपेण योऽर्थोऽनुकृतान्वयव्यतिरेकः स तस्य प्रत्यक्षः, तस्य च प्रत्यक्षस्यार्थस्यायमेव प्रतिपत्तिप्रकारः सम्भवदशामश्रुते, नापरः, तद्विषयं च तदन्वयव्यतिरेकानुविधायि स्फुट प्रतिभासं ज्ञानं प्रत्यक्षं, प्रत्यक्षज्ञेयत्वात्, तद् न प्रत्यक्षोऽर्थो - नेकप्रकारप्रतिपत्तिविषयो यः शाब्दप्रमाणस्यापि विषयो भवेत्, नापि परोक्षः, तस्यापि हि निश्चिततदन्वयव्यतिरेकनान्तरीयकदर्शनात् प्रतिपत्तिः यथा धूमदर्शनाद्वह्नेः, अन्यथाऽतिप्रसङ्गात् न च शब्दस्यार्थेन सह निश्चितान्वयव्यति| रेकता, प्रतिबन्धाभावात् तादात्म्यतदुत्पत्त्यनुपपत्तेः तथाहि न बाह्योऽर्थो रूपं शब्दानां नापि शब्दो रूपमर्थानां, तथाप्रतीतेरभावात्, तत्कथमेषां तादात्म्यं ? येन व्यावृत्तिकृतव्यवस्था भेदेऽपि नान्तरीयकता स्यात्, कृतकत्वानित्यत्ववद् अपि च-यदि तादात्म्यमेषां भवेत् ततोऽनला चलक्षुरिकादिशब्दोच्चारणे वदनदहनपूरणपाटनादिदोषः प्रसज्येत, न चैवमस्ति तद् न तादात्म्यं नापि तदुत्पत्तिः, तत्रापि विकल्पद्वयप्रसक्तेः तथाहि त्रस्तुनः किं शब्दस्योत्पत्तिरुत शब्दाद्वस्तुनः १, तंत्र वस्तुनः शब्दोत्पत्त विकृत सङ्केतस्यापि पुंसः प्रथमपनसदर्शने तच्छन्दोचारणप्रसङ्गः, शब्दाद्वस्तुत्पत्तौ विश्वस्यादरिद्रताप्रसक्तिः, तत एव कटककुण्डलाद्युत्पत्तेः, तदेवं प्रतिबन्धाभावात् न शब्दस्यार्थेन | सह नान्तरीयकतानिश्चयः, तदभावाच्च न शब्दाद् निश्चितस्यार्थस्य प्रतिपत्तिः, अपि त्वनिवर्त्तितशङ्कतयाऽस्ति न वेति
Jain Education International
For Personal & Private Use Only
शाब्दप्रामाण्यं.
१५
२०
116 11
२६
www.jainelibrary.org