________________
शोकादिना तद्विकारदर्शनात्, तन्न देह उपादानं संवेदनस्य, उक्तं च- "अविकृत्य हि यद्वस्तु, यः पदार्थों विकार्यते । उपदानं न तत्तस्य, युक्तं गोगवयादिवत् ॥ १ ॥” एतेन यदुच्यते - 'मातापितृ चैतन्यं सुतचैतन्यस्योपादान' मिति, तदपि प्रतिक्षिप्तमवगन्तव्यं, तत्रापि तद्विकारे विकारित्वं तदविकारे चाविकारित्वमिति नियमादर्शनात्, अन्यच्च - यद्यस्योपादानं तत्तस्मादभेदेन व्यवस्थितं यथा मृदो घटः, मातापितृचैतन्यं च चेत्सुत चैतन्यस्योपादानं ततः सुतचैतन्यं मातापितृचैतन्यादभेदेन व्यवतिष्ठेत्, तस्माद् यत्किञ्चिदेतत्, तन्न भूतधर्मो भूतकार्य वा चैतन्यम्, अथ चास्ति प्रतिप्राणि वसंवेदन प्रमाणसिद्धमतो यस्येदं स यथोक्तलक्षणो जीवः ॥ 'योनय' इति 'युक् मिश्रणे' युवन्ति - तैजसका - र्मणशरीरवन्तः सन्त औदारिकशरीरेण वैक्रियशरीरण वाऽऽखिति योनयो - जीवानामेवोत्पत्तिस्थानानि ताश्च सचि त्तादिभेदभिन्ना अनेकप्रकाराः, उक्तं च- 'सचित्तशीतसंवृत्तेतरमिश्रास्तद्योनयः, [सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैक| शस्तद्योनयः] (तत्त्वा० अ० २ सू० ३२) इति, जगच जीवाश्च योनयश्च जगज्जीवयोनयः तासां विविधम्- अनेकप्रकारमुत्पादाद्यनन्तधर्मात्मकतया जानातीति विज्ञायको जगजीवयोनिविज्ञायकः, अनेनं केवलज्ञानप्रतिपादनात् खार्थसस्पदमाह । तथा जगद् गृणाति - यथावस्थितं प्रतिपादयति शिष्येभ्य इति जगद्गुरुः, यथावस्थितसकलपदार्थप्रतिपादक इत्यर्थः एतेन यत्कैश्चित् शब्दस्य बहिरर्थं प्रति प्रामाण्यमपाक्रियते तदपास्तं द्रष्टव्यं तथाहि ते एवमाहुः - प्रमेयं वस्तु परिच्छिन्नं प्रापयत्प्रमाणमुच्यते, प्रमेयं च विषयः प्रमाणस्येति प्रामाण्यं विषयवत्तया व्याप्तं, ततो यद्विषय
Jain Educational
For Personal & Private Use Only
१०
१३
w.jainelibrary.org